________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८७१
भगौ० टौ० । इन्द्रियादीत्यादिपदादात्ममनःसंयोगादि तस्य विकारः कार्य । विरोधः परस्पराभावरूपत्वं परस्पराभावाक्षेपकत्वं वा, प्राद्ये । तदभावादिति । अन्त्ये । अतदाक्षेपकत्वादिति । अचेतनानामिति । नित्ये चेतनेऽनित्यत्वाभावादित्यर्थः । नापौति । स्वभावाक्षेपे विरोधो मूलं, स च ज्ञानत्वनित्यत्वयोर्नास्ति, ज्ञानमनित्यमिति व्याप्तिः विपक्षे बाधकाभावान्नास्ति, अन्यथा सुखं दुःखसम्भिन्नमेवेति व्याप्तेः स्वादि न सिद्धेत्, न ह्यनित्यत्वमेव ज्ञानत्वव्यवस्थापकं, किन्तु
सविषयकत्वमेव ज्ञानत्वव्यवस्थापकं तु । सविषयकत्वं, तच्च नित्यत्वेऽप्यविवक्षितं, यथा चक्षुर्मात्रगुणत्वमेव रूपत्वप्रयोजकमिति नित्यमपि रूपं सिद्ध्यतीत्यर्थः । इन्द्रियादिविकारमात्रं न ज्ञानत्वव्यञ्जकमतिप्रसङ्गादिति सविषयत्वविशिष्टं तत् तस्य वाच्यं तत्र च व्यर्थविशेष्यत्वमित्याह । न चेति ।
रघु० टी० । एवं तौति । व्याहतं विरुद्धम् । विरोधं निराकरोति। नेत्यादि । इह माटत्ववन्ध्यात्वे जनकत्वाजनकत्वमात्रे । चेतनं-ज्ञानं । ज्ञानभिन्नानामनित्यानां ज्ञानत्वप्रसङ्गात्। ज्ञानत्वस्यानित्ये दर्शनं नित्ये चादर्शनं तयोः । चक्षुरिति । चतुर्ग्राह्यत्वगग्राह्यजातिमद्गुणत्ववत् । गुणेति प्राचां प्रभाद्रव्यस्य वारणाय । त्रसरेणपरिमाणगतावान्तरजातेस्त्वचा ग्रहौतमयोग्यत्वे परिमाणान्यत्वमपि वक्रव्यम् । तदयमर्थः यथाऽनित्यस्य रूपत्वे तादृशगुणत्वं प्रयोजक नित्यस्य चारूपत्वे तदभावः तेन नित्यजलपरमावादिरूपसिद्धिस्तथाऽनित्यस्य ज्ञानत्वेऽर्थप्रवणत्वं प्रयोजकं नित्यस्य चाज्ञानत्वे तदभाव
For Private and Personal Use Only