________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७२
आत्मतत्त्वविवेके सटौके
इति न नित्यज्ञानसिद्धिविरुड्यत इति । तस्येन्द्रियविकारस्य । अतिप्रसङ्गः संयोगसुखादौ जातिविशेषाणमेव चान्वयव्यतिरेकबलानियतव्यञ्जकव्यङ्ग्यत्वं न जातिमात्रस्येच्छात्वादिरूपत्वादिषु व्यभिचारात् । तथा चार्थप्रवणत्वस्य इच्छादौ मत्वेऽपि न क्षतिरिति मन्तव्यम् ।
अथ क्षुद्रोपद्रवाः। केवलस्य कर्तृत्वे विश्वस्य वैश्वरूप्यव्याघातः, सततोत्पत्तिप्रसङ्गश्च। अदृष्टापेक्षायां कल्पनागौरवम्, तत एव तदुत्पत्तेः । स्वार्थ प्रवृत्तावनौश्वरत्वप्रसङ्गः। परार्थं प्रवृत्तावदःखमयसर्गप्रसङ्गः। एवमेव प्रवृत्तावचैतन्यम् । एकत्वे प्रमाणभावः । अनेकत्वे त्वसार्वज्यम, प्रतिनियतसामग्रोविज्ञत्वादित्येवमादयः ।
शङ्क० टौ० । उपद्रवाणं तुट्रत्वं सिद्ध्यसिद्धिपराहतत्वम् । केवलस्य अदृष्टनिरपेक्षस्य । वैश्वरूप्यम् वैचित्र्यम् । तथा च सर्वमेकजातीयं स्यादित्यर्थः । सततेति । एकस्य न क्रमः कापौत्यर्थः । कल्पनागौरवमिति । ईश्वरकल्पनागौरवमित्यर्थः । तत एवेति । अदृष्टादेवाङ्करायुपपत्तेरित्यर्थः। स्वार्थमिति। स्वसुखाथं प्रवृत्ती सुखवत्त्वेन संसारित्वापत्तेरित्यर्थः। एवमेवेति। प्रयोजनं विनैवेत्यर्थः । प्रमाणाभाव इति । नाक्रमौश्वरानुमानं तदेकत्वमपि विषयौकरोतीत्यर्थः । नियतेति । चितिकर्तुस्तदुपादानमात्राभिज्ञत्वम् । अङ्करकर्तुश्च तदुपादानमात्राभिज्ञत्वमित्यसार्वज्यमित्यर्थः ।
For Private and Personal Use Only