________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।।
८५३
भगौ० टौ. । क्षुद्रत्वमुपद्रवाणां सियसिद्धिव्याघातात् । स्वार्थमिति। स्वार्थस्य सुखादिरूपस्यादृष्टजन्यतया तदङ्गोकारेऽस्मदादिवत् संसारित्वप्रसङ्गः इत्यर्थः । एवमिति । स्वार्थपरार्थानुद्देशेनेत्यर्थः । एकस्येश्वरस्यान्येश्वरकार्याऽकारितया तदुपादानाद्यनभिज्ञत्वादित्यर्थः । श्रादिग्रहणादतथात्वेऽनात्मत्वमित्यादि ।
रघु० टी० । स्वार्थमिति । स्वार्थस्य सुखादेः, तज्जनकादृष्टस्य च मत्त्वात्मसारित्वप्रसङ्गः । एवमेव प्रयोजनमनुद्दिश्यैव । प्रवृत्ती कार्यजनने ।
तत्र कारणचक्रस्यैकमुपादाय शेष वैय्यर्थप्रसञ्जने सर्ववैयर्थप्रसङ्गः। अन्वयव्यतिरेकाभ्यां सिद्धकारणभावस्य न वैयर्थ्यमिति चेत् ! अनुमितकारणभावस्याऽप्येवम्, प्रमाणसिद्धत्वाविशेषात् । यक्ष यदनुगणत्वेन कल्पितं तस्य तेनैव विफलौकरणे सर्वत्रादृष्टमुपादाय दृष्टवैफल्यग्रसङ्गः। तथाच तदपि न स्यात् । प्रमाणाभावात् । दृष्टेन ह्यदृष्टमुन्नीयते। परार्थं च प्रत्तिः, स्वार्थाभावात्। न च दःखसृष्ट्या कारुण्यापवादः । जनकाध्यापकचिकित्सादिषु व्यभिचारात् ।
अथ दौर्जन्यादेव किन्नैवमिति चेत् । न। दोषाभावात् । तदभावश्च मोहाभावात् । तदभावोऽपि सर्वज्ञत्वादिति ।
110
For Private and Personal Use Only