________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
रघु० टौ० । तदिपरौतस्य तद्भिन्नस्य । व्यवहारेति। व्यवहारो लक्षणं चिह्न यस्थास्तस्थाः कार्यस्य कारणसिद्ध(चिक्रीवात् । तद्र हितेषु व्यञ्जका भिव्यकिव्यवहाररहितेषु । तत्सम्भवोऽभिव्यङ्ग्यसम्भवः । कारणं विनेति । घटादिजातौयं प्रति संस्थान विशेषम्यान्वययतिरेकाभ्यां कारणत्वाऽवधारणात् ।
एवं तर्हि नित्यं ज्ञानमित्यपि व्याहतम्। इन्द्रियादि विकारमात्रव्यक्तिमात्रव्यङ्ग्यत्वात् ज्ञानत्वसामान्यस्यति चेत् । न। अतद्भावत्वात् अतदाक्षेपकत्वाच्च । न हि मातृत्वस्य वन्ध्यात्ववत् नित्यत्वस्याभावो ज्ञानत्वम् । अचेतनानामपि चेतनत्वप्रसङ्गात् । नापि नित्यत्वं ज्ञानत्वाभावमाक्षिपेत्। ज्ञानत्वेनाविरोधात्। विरोधमूलस्य विपक्षे बाधकल्याभावात् , दर्शनादर्शनयोश्चार्थप्रवणत्वाप्रवणत्वोपाधिग्रस्तत्वात्। रूपत्वानित्यत्वयोश्चक्षुर्मात्रग्राह्यव्यक्तित्ववत्। न चेन्द्रियादिविकारो ज्ञानत्वाभिव्यक्तिहेतुरर्थप्रवणव्यक्तिमात्रस्यैव तन्निरपेक्षस्य तथाभावात्। एतदनपेक्षस्य तस्यातिप्रसञ्जकत्वादिति ॥
शाङ्क० टौ० । एवं तौति । इन्द्रियादिविकारमन्तरेणैव ज्ञानवाभिव्यको तवापि दोषाः समाना एवेत्यर्थः । अतद्भाववादिति । ज्ञानत्वनित्यत्वयोः परस्परविरहलक्षणम्तावन विरोधः न हि ज्ञानत्वाभाव एव नित्यत्वं नित्यत्वाभावो वा ज्ञानत्वमित्यर्थः ।
For Private and Personal Use Only