________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६०
यात्मतत्त्वविवेके सटौके
स्थादित्यर्थः । पटत्वादिकमपि तवास्तु को दोष इत्यत आह । श्रोमिति। तादृशावयवसंयोगं विनापि यदि विषाणरूपं द्रव्यं स्यात्, तदाऽकारणकार्योत्पत्तिरित्याह। कारणमिति ।
यद्वा संस्थानविशेषमन्तरेणाऽपि यदि विषाणत्वाभिव्यक्तिः स्यात् तदाऽकारणककार्योत्पत्तिरित्यर्थः ।
न चेति । अन्वयव्यतिरेकाभ्यां तादृशावयवसंयोगस्यैव विषाणारम्भकत्वं विषाणत्वाभिव्यञ्जकत्वं च ग्टहीतं तत्तिरस्कारे कारणत्वनिश्चयस्तु क्वापि न स्यादित्यर्थः ।
भगौ० टी० । एवमिति । यदि नादृश्ये प्रत्यक्षबाध इत्यर्थः । महार्थति । महानर्थः प्रयोजनं विश्वसृष्ट्यादि यस्मात्, स ईश्वर इत्यर्थः । अवान्तरत्वात्तन्नेदानौं समाधेयमिति भावः। श्रोमिति । यदि व्यञ्जकाभावेऽपि तड्यङ्ग्यजातिमत्वं तदा व्यञ्जकाभावेऽपि मिथो विरुद्धजातीनामेकत्र प्रवृत्तौ जातिसङ्करप्रसङ्गः स्यादित्यर्थः। कारणं विनेति । व्यञ्जकज्ञानाभावे व्यङ्ग्यज्ञानापत्तेरित्यर्थः । सर्वमिति । श्टङ्गत्वं दृश्यमेव योग्यानुपलब्ध्या बाध्यते, तत्साधने च प्रत्यक्षबाधः । परात्मा तु परस्थायोग्योऽपि चेष्टयाऽनुमौयत इति न तत्र योग्यानुपलब्धिर्वाधिकेत्यर्थः ।
तथाऽप्यतौन्द्रियं ग्टङ्ग मूर्तत्वात् कुतो न सिद्ध्यतीत्याह । तस्मादिति । श्टङ्गत्वस्य दृश्यसन्तानव्यङ्ग्यत्वादतौन्द्रियस्य व्यतिरेकाग्रहायतिरेकिणोऽप्रवृत्तेः त्वन्मते केवलान्वयौ नास्त्येव विपक्षे बाधकाभावाच्चेत्यर्थः ।
For Private and Personal Use Only