Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
यात्मतत्त्वविवेके सटीके
मम्भावनायामपि गुणकर्मणोनित्यमात्रस्य च तदसम्भवात् प्रक्रान्तबाहौजमात्रमधिकृत्य इदमित्यपि कश्चित् । तत्कार्यकरणस्य तदभावस्य च परस्परविरहरूपत्वेऽपि स्वरूपतो न विरोधः । एकस्मिन् कालेऽङ्करकरणाकरणयोः समर्थबोजक्षणशिलाशकलात्मकदेशभेदेनेव एकस्मिन् धर्मिणि कालभेदेन वृत्तेरनुभवमिद्धतया दुरपहवत्वात् किन्त्वेककालावच्छेदेन न चैककालावच्छिन्नं तदुभयमेकत्राभ्युपगच्छाम इत्याह । सविशेषणस्येत्यादिना। मविशेषणस्य कार्यবিবিভিনয় ৰূদ্ধাঞ্জলি নিৰীঘধিক্কাৰথি অগ্রাভ एकधर्मिसमावेधस्यानुपपत्तेरनभ्युपगमात् यदा हि पन यत्कार्याकरणं तदा तत्कार्यकरणस्य तनाभावः तद्धमिवृत्तित्वाभावः न वन्यदा तत्कार्यकरणस्य तद्धर्मिवृत्तिलाभाव: न चैतयोरेककालावच्छिनतत्कार्यकरणाकरणयोरिति ॥
-
नहितीयः भावाभावव्यतिरिक्तयोः करणाकरणयोरसिद्धेः। व्यापारापरव्यपदेशसहकारिभावाभावौ हि करणाकरणे कार्यभावाभावौ वेति अतिरेकसिद्धावपि स्वकाल एव स्वाभावप्रतिक्षेपवत् प्रकरणाभावमाक्षिपेत् करणं न त्वन्यदा न हि यो यदा नास्ति स तदा स्वाभावं प्रतिक्षेतमहतौति विरोधभावं वा आक्षेप्तुम् । तथा सति न कदापि तन्त्र स्यात् न वा
For Private and Personal Use Only