Book Title: Anekarth Ratna Manjushayam Author(s): Hiralal R Kapadia Publisher: Devchand Lalbhai Pustakoddhar FundPage 24
________________ [अर्थाः ४-११] श्रीसमयसुन्दरगणिकृता रा अजा नो ददते सौख्यम् ॥ ४-८॥ "रा रमा रमणी बाला" इति (विश्वशम्भु)वचनाद् रा-रमणी न:-अस्मभ्यं सौख्यं ददते । फिविशिष्टा रा? 'अजा' । “अजश्छागे हरे विष्णौ, रघुजे वेधसि स्मरे" इति हैमानेकार्थ( श्लो० ८० )वचनात् अजं-हरं १ विष्णुं २ रघुजं ३ ब्रह्माणं ४ स्मरं ५ वा । अटति अतति-गच्छतीति अजा-पार्वती १ लक्ष्मीः २ इन्दुमती ३ ५ सावित्री ४ रतिश्च ५। इदं तत्तद्भक्तानां वचनम् । अर्थाः ५ सर्वे ॥ ४-८॥ राज! आः नो दद! ते सौख्यम् ॥ ९॥ "रा रमा रमणी बाला"इति (विश्व०)वचनाद् रा-लक्ष्मीः । ततः "जश्च जेतरि जनने विगते" इति सुधाकलश(श्लो० १८)वचनात् जः-जननं यस्य स राजः कन्दर्पः लक्ष्मीनाममातृजातत्वात् । तत्सम्बोधनं हे राज!-हे कन्दर्प! । “आः सन्तापको... पयोः" इति तिलकानेकार्थवचनात् आ इति कोपे । ते-तुभ्यं सौख्यं-सुखं नो-न, अस्तु इति शेषः । तव सुखं माऽस्तु इत्यर्थः । यतः हे दद! "दं कलत्रम्” इति सुधाकलश(श्लो० २५)वचनात् दं-कलत्रं द्यति-खण्डयति-पीडयतीति ददः, अवलासन्तापकारक इत्यर्थः । तत्सम्बोधनं हे दद!। इदं कान्तविरहे कामपीडितायाः कामिन्याः कामं प्रति आक्रोशदानवचनम् ॥ ९॥ १५ रा आजा नः अददत ईसौख्यम् ॥ १०॥ "आ स्वयम्भूः" इति श्रीअमरकविवचनात् आ-ब्रह्मा ततो जा-जाता आजाश्रीसरस्वती देवीत्यर्थः । नः-अस्माकं अस्मभ्यं वा ईसौख्यं-लक्ष्मीसौख्यं अददत-अदतेत्यर्थः। फिविशिष्टा आजा? 'रा' राजते-दीप्यते-शोभते । 'क्वचिड्डः' (सिद्धहेमे अ०५, पा० १, सू० १७१) इति डप्रत्यये अपि च रा ।। १० ॥ राजा नो ददते सौख्यम् ॥ ११ ॥ ___ “रं जले रङ्गवेगयोः" इति विश्वशम्भुवचनात् रेण-रङ्गेण अजेन-छागेन वाहनरूपेण अजति-गच्छतीति राजा-अग्निः, छागवाहनत्वात् नो-न सौख्यं ददते-ददाति, दाहकत्वात् । अथवा नः-अस्माकं सौख्यं-सुखं ददते, रन्धनशीताद्यपहारकत्वेन परमोपकारकत्वात् ॥ ११ ॥ विग्रह इति । पुनः स कीदृशः? येन सुधाविभागार्थ शिवमोक्षार्थ वा बलिजिच्चासौ कायश्चेति पुरा स्वीकृतः-श्रीभावं प्रापितः । पुनः कीदृशः? यः अग-गोवर्धननामगिरि गां-पृथ्वीं च अधारयत्-दधे । पुनः कोशः? यः अन्धेभगाधे के-जले क्षयं-गृहं करोतीति, विष्णुर्जलशायीति प्रसिद्धिः। पुनः कीदंशः? भमरा यस्य इति स्तुत्यं नाम माहुः । इतीति किम् ? शशिमच्छिरोहर इति, शशिनं-चन्द्रं मनातीति शशिमत्-राहुः तस्य शिरोहरतीति सः । पुनः कीशः? उद्धृत्तो भुजङ्गहा-रुडो यस्य सः, तथा रवे-परब्रह्मणि लयः-एकाग्रता यस्य सः अथवा भकार. प्रक्षेपं कृत्वा भरं-सुदर्शनमामचक्रं वलयं यस्य सः । भयमोलेखः श्रीसुधाकलशमुनीशकतैकाक्षरीनाममालिकाया आधारेण सूचितः । २ भत्र द्वौ अधों पृथग शेयो न वेति प्रभः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180