Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 93
________________ ७५ गायत्रीविवरणम् विषयेण केवलज्ञानात्मना लोकत्रयव्याप्तिः ज्ञानात्मनोः स्यादभेदात् , शेषत्रयस्यापि श्रद्धानविषयतया "संबगयं समत्तं" इति (विशेषावश्यक गा० २७५१ ) वचनात् सामान्यरूपतया ज्ञानाद् वा । अत एव सवितुर्वरेण्यं-सहस्ररश्मेः सकाशात् प्रधानतरं, तदुयोतस्य देशविपयत्वात् प्रस्तुतपञ्चकसम्बन्धिनो भावोयोतस्य सर्वविषयत्वात् । आहुश्च ५ पूज्याः (श्रीभद्रबाहुस्वामिनः आवश्यकनियुक्तौ लोगस्साधिकारे)-"चंदाइञ्चगहाणं" इत्यादि । न चाचार्यादित्रयस्य कैवलिकज्ञानलम्भो नास्तीति वाच्यम् । तेषामपि कैवलिकज्ञानोपलब्धानां भावानां सामान्येन ज्ञानसद्भावादित्युक्तं भर्गोदे इति । भर्ग इति ईश्वरः । उरिति ब्रह्मा दयते-पालयति जगदिति दो-विष्णुः 'कचिद्' (सिद्ध०५-१-१७१) इति डे रूपम् । लोके हि जगद् ब्रह्मोत्पादयति रजोगुणाश्रितः, विष्णुः स्थापयति सत्त्व१० गुणाश्रितः। ईश्वरः संहरति तामसभावाश्रितः इति । भर्गश्च उश्च दश्चेति भर्गोदः, द्वन्द्वैकवद्भावात् , तस्मिन् । किंविशिष्टे ? 'वसि' वसतीति वस् विचि रूपं तस्मिन् वसि। क वसि इत्याह-'अधीमहि' अस्य (-विष्णोः ) अपत्यं इ:-कामः तस्य मह्यो-भूमयः इमह्यःकामिन्यस्ता अधिकृत्य अधीमहि-स्त्रीषु तिष्ठमाने, ख्यायत्तात्मनीत्याशयः । प्रतीतं चैत दीश्वर-ब्रह्म-विष्णुषु कामिनीपरवश(क)त्वम् । पार्वत्यनुनयार्थमीश्वरस्य ताण्डवाडम्बर१५ श्रुतेः । ब्रह्माणमधिकृत्य वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत्" । विष्णोस्तु गोपादिवल्लभोपदर्शकतत्तद्वचनश्रवणात् । पठ्यते च "राधा पुनातु जगदच्युतदत्तदृष्टि मन्थानकं विदधती दधिरिक्तभाण्डे । तस्याः स्तनस्तबकलोलविलोचनालिदेवोऽपि दोहनधिया वृषभं निरुन्धन् ॥"-वसन्त० सम्पूर्णा गाथा तछाया च यथा "सम्वगयं सम्मत्तं, सुत्ते चरित्ते न पज्जवा सम्धे । देसविरई पदुच्चा, दोण्ह वि पडिसेहणं कुजा ॥" सर्वगतं सम्यशवं श्रुते चरिग्रेम पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् । २ 'भंत भाई' इति ख-पाठः। ३सममा गाथा तछाया चैवम् "चंदाइशगहाणं, पहा पयासेइ परिमियं खिन । केवलियनाणलंभो, लोगालोगं पयासे ह॥" चन्द्रा-ऽऽदित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । केवलिकज्ञानळाभो लोकालोकं प्रकाशयति ॥ . 'तमोगुणान्वितः' इति ख-पाठः। ५ वरादिषु' इति ख-पाठः। ६ ईश्वरेण हि कामाम्धेम पा. त्याः पुरो नाव्यं कृतं, बझा' इति ख-पाठः।. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180