Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 151
________________ ५ १० श्रीजिनप्रभसूरिविरचिता "खरटम हा समतुलं वज्जीखीरेण भावियं बहुसो । निग्गीवोयरपकं हवेइ कंदुज्जलं सुव्वं ॥” आम्नायस्त्वयं रहस्यकल्पद्रुमेऽस्माभिः प्रकटितः । इति द्रव्यानुयोगः ॥ ३ ॥ अथ चरणकरणानुयोगस्य दिग् दर्श्यते 'प' इति पडिलेहण 'आ' इति आदिः सन्धौ पा । अनेन"पेडिलेहणा पमज्जण भिक्खायरिलोयभुंजणा चेव । पत्तगधुवणवियारा थंडिलआवस्सयाई च ॥” इति ( विचारसारे गा० २५१ ) गाथोक्तप्रतिलिखना दिदशविधचक्रवालसमाचारी सूच्यते इति प्रतिलेखनादिसमाचारी । 'सोम' इति सौम्यत्वं प्रशान्तवाहितारूपम्, तदुभयमपि अल्लियंति - सेवन्ते पासोमल्ली । एतेन विशेषणेन क्रियाशुद्धिर्भावशुद्धिश्च क्रमेणोक्ता । तथा 'पियंगा' प्रियाणि-अभीष्टानि सूत्रार्थ पाठावबोधाभ्यां अङ्गानि - आचारादीनि द्वादश येषां ते प्रियाङ्गाः । एतेन पदेन ज्ञानसम्पन्नत्वमभिहितम् । एवंविधा 'भा' इति भावसाधवो भवन्ति । इति चरणकरणानुयोगः ॥ ४ ॥ व्याख्यातमस्यां गाधाया- मनुयोगचतुष्टयम् । तुष्टये कौतुकवतां, श्रीजिनप्रभसूरिभिः ॥ अथवा सकाऽपीयं गाथा प्रत्येकं चतुर्भिरनुयोगैर्व्याख्यायते'पउमाभवासुपूज्जा' इति गणितानुयोगप्रथमपादः पूर्वं व्याकृतः । द्वितीयपादस्त्वेवं ज्ञेयम्- 'पुष्पदंत'त्ति आर्षत्वाद् विभक्तिलिपि पुष्पदन्तयोः - सूर्यचन्द्रयोः आकारप्रश्लेषात् २० ‘अससि' इति अस्वश्रियोः, न विद्यते स्वा - आत्मीया श्रीर्ययोस्तौ अस्वनियौ तयोः । यदा किल सूर्यस्य स्वा श्री रक्तवर्णत्वलक्षणा न भवति, किन्तूदये चन्द्रवत् श्वेता- निस्तेजस्का वा, तथा चेन्दोः स्वा श्रीर्न भवति, किन्तु शशी रुधिररको दृश्यते तदा 'गौरा' इति तदा गवि - पृथिव्यां राजानः 'रत्ताससि' इति रक्तं - सुभटरुधिरं आस्ये-मुखे यस्य स रक्तास्यः, तथाविधोऽसि:-खड्गो येषां ते तथा भवन्ति राजानः, परस्परं युध्यन्ते इत्यर्थः । अयमपि २५ गणितानुयोगः । तथा सह और्वेण - पातालकलशलक्षणेन वडवानलेन वर्तन्ते ये ते सौर्वाः, असाधारण विशेषणात् समुद्रास्तैश्च सागरोपमा लक्ष्यन्ते, तैः अयनं - सङ्ख्यापरिज्ञानं ययोवर्तते । तौ कौ ? 'अमी' इति प्राकृते द्विधा व्युत्पत्तिः, सिद्धावस्थया साध्यावस्थया व । तंत्र सिद्धावस्थामाश्रित्य 'अमी' इति कोऽर्थः । अमू, द्विवचनस्य प्राकृते बहुवचनम्, अम् १-२ छाया १५ १३०' Jain Education International खरट (?) महासमतुल्यं वज्जी (?) क्षीरेण भावितं बहुशः । निर्गीवोदरपकं भवति कन्दोज्वलं ......॥ प्रतिलेखना प्रमार्जनं भिक्षावरीलोचभुअनाश्चैव । पात्रकधावनविचारा स्थण्डिलावश्यकानि च ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180