Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
उपसग्गहरस्मरणम् ।
१५ भावविषं धारयन्तीति विषधराः-मिथ्यात्वकपायादिदोषदृषितात्मानः प्राणिनः तेषां विषंमिथ्यात्वादि निर्नाशयति-जिनवचनामृतरसप्रयोजनेनापगमयतीति तम् । पुनः कथम्भूतं पार्श्वम् ? 'मङ्गलकल्याणावासं' मङ्गलं-दुरितोपशामकं कल्याणं-नीरोगत्वं सम्पदुत्कर्षरूपं वा, तयोः आवासः-स्थानं गृहं यः स तम् । अत एव मङ्गलकल्याणावासं श्रीपाच सेवमानाः पुरुषा अपि मङ्गलकल्याणभाजो भवन्तीति युक्तमेव ॥ १॥ जि० ०–इदानीं द्वितीयगाथा व्याक्रियते
विसहरफुलिंगमंतं', कंठे धारेइ जो सया मणुओ। तस्स गहरोगमारी-दुट्ठजरा जति उवसामं ॥२॥
[विषधरस्फुलिङ्गमनं कण्ठे धारयति यः सदा मनुजः ।
• तस्य ग्रहरोगमारीदुष्टज्वरा यान्त्युपशमम् ॥२॥] "विसहर' त्ति 'फुलिङ्ग' त्तिशब्दाभ्यां गर्भितत्वाद् विषधरस्फुलिङ्ग इति नाम स चासौ मत्रश्च मनसस्त्राणयोगान्मत्रणाद् वा गुप्तभाषणाद् वा विषधरस्फुलिङ्गमत्रस्तं भगवन्नामगर्भितमष्टादशाक्षरात्मकमादौ तारत्रैलोक्यकमलार्हदीजैरन्ते च तत्वप्रणिपातवीजाभ्यामष्टाविंशतिवर्णात्मकं मत्रविशेष कण्ठे यो मनुजः-मनुष्यः । यद्वा मनुः-मत्रस्तं गच्छति "सर्वे गत्यर्था ज्ञानार्थाः" ? इति वचनात् जानातीति मनुगो-मात्रिकः । सदा-सर्वकालं धारयति-धत्ते कण्ठस्यं करोतीति १५ यावत् । कण्ठस्थकरणेन चाहर्निशं तजापविधिय॑ज्यते । तस्य किं भवतीत्याह-तस्य शश्वन्मत्रं जपितुर्ग्रहाश्च भूत-प्रेत-ब्रह्मराक्षसादयः सूर्यादयो वाऽशुभगोचरवर्तिनः रोगाश्व-वात-पित्त-श्लेष्मसनिपातजा व्याधिप्रभेदाः मारिश्च-सर्वगमृत्युलक्षणमशिवं दुष्टज्वराः-एकान्तर-द्वितीयान्तरतृतीयान्तर-चातुर्थिकादयोऽथवा दुष्टा-दुष्टजनाः कुपितनृपा वा ज्वराश्च शीतज्वराद्या वा तापज्वराया यान्ति-गच्छन्ति उपशमनं-निवृत्ति, उपशाम्यन्तीत्यर्थः । 'उवसमं ति वक्तव्ये आपत्वाद् २० इखाभावः । यथा-"उँवसामं उवणीया गुणमहया जिणचरित्तसरिसं पि" ( आव०नि० गा० ११८, विशेषा० गा० १३०६ )त्ति । एवं च व्याख्यायमाने मा भूदधिकतमत्रजपितुः स्वार्थसम्पत्तिमात्रफलभाक्तया कुक्षिम्भरित्वमिति परार्थसम्पत्तिरपि व्याख्यायते । तस्य मत्रजपितुर्ग्रहाद्या
'तं' इति पृथक् पदं वा। २ '' इति पृथक् पदं वा । ३ विषधरस्फुलिङ्गमं त्वां विष लिङ्गामं स्वां विसहरफुलिङ्गमन्तं वा इति सम्भवति। ५ 'मनुगः' इत्यपि सम्भवति । ५ 'पान्ति तु यशामम्' इत्यपि १५ 'सम्मवति । ६ 'हर इति' इति क-ख-पाठः। ७ 'यम्तर-यन्तर' इति प्रतिभाति । ८ एतदुत्तरार्धेच्छाये यथा
परिवायंति कसाया कि पुण सेसे सरागरथे॥" उपशममुपनीता गुणमहता जिमचारित्रसरशमपि ।
प्रतिपातयन्ति कषायाः किं पुनः शेषाम् सरागस्थान् ।। ९ 'कृस्यम' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180