Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
सप्त स्मरणानि ।
र्थप्रदायी देवताधिष्ठितो रत्नविशेषः, कल्पपादपः- कल्पवृक्ष उत्कृष्टकालभावी अन्तःकरणक्षुण्णफलप्रदो वृक्षभेदः, ततो द्वन्द्वे ताभ्यामप्यभ्यधिकः - अतिशयेनाधिकस्तस्मिन्निति विग्रहः । तौ हि प्रसन्नाप्यैहिकमेव फलं दातुमीश्वरौ त्वत्प्रणामस्तु चिन्तातीतमोक्षलक्षण पारलौकिकफलप्रदानसमर्थ इति युक्तमेव ततोऽभ्यधिकत्वमस्येति । तस्मिन् प्राप्ते सति किमित्याह - प्राप्नुवन्ति - ५ लभन्ते । विघ्नानामभावोऽविन इत्यव्ययीभावस्तेन अविमेन, निष्प्रत्यूहमित्यर्थः । जीवाःप्राणिनोऽजरामरं स्थानं-पदं, न विद्यते जरा यत्र तदजरं न म्रियते यस्मिनित्यमरं, बाहुलकादल, अजरं च तदमरं चेति विशेषणकर्मधारयेऽजरामरं, मुक्तिपदमित्यर्थः ॥
पार्श्वयक्षादिस्तवपक्षे पुनरित्थं घटना
सम्मतस्य बहुमतस्य भावः साम्मत्यं, वाल्लभ्यैमित्यर्थः तस्मिन् । तव पार्श्वयक्षस्य पद्मा१० चत्या धरणेन्द्रस्य च सम्बन्धिनि प्राप्ते चिन्तामणिकल्पपादपाभ्यधिके ततोऽप्यतिशयितफलदायित्वात् । अथवा पीयत इति पायः - पानकं वल्भो - भोजनं चिन्तामणिकल्पौ मनश्चिन्तितरसपूरणप्रवणत्वाच्चिन्तारत्नतुल्यौ यौ पायवल्भौ ताभ्यां हितः - अनुकूलः, तत्सम्पादकत्वात् तस्मिन् । यदिवा अकारलोपात् अचिन्ता - निश्चिन्ता मनःप्रयासवर्जिता इति जीवानां विशेषणम् । मणिभिःकर्केतनाद्यैः कल्पः कल्पनं - रचना येषां तानि मणिकल्पानि, रत्नघटितानीत्यर्थः । तथाविधानि १५ यानि 'पाय' ति पात्राणि - स्थाल्यादिभाजनानि तेषु वल्भो - भोजनं तेन कृत्वा तस्मै वा हिते, तव साम्मत्ये त्वत्प्रसादसुभगानामैश्वर्यशालितया रत्नमयपात्रेषु भोजनोर्पपत्तेः । प्राप्नुवन्त्यविघ्नेन जीवाः स्थानं - पदं प्राज्यसाम्राज्यादिकम् । अथ कथं स्थानशब्देन राज्यादिकं लभ्यते । असाधारणविशेषणसामर्थ्यादिति ब्रूमः । तच्च विशेषणं 'अयरामर' ति । अयः - अनुकूलदैवं तेन रामा-रमणीया रा - दीप्तिर्यत्र तदयरामरम् । उत्कृष्टभाग्यवशाद्धि राज्यादिक एव पदे दीप्तिर तितरामुत्पद्यते पुरुषाणाम्, यस्तव सम्मतो भवेत् सोऽनुकूलदैवान्वितं राज्यादिपदमवाप्नोतीत्याकूतम् । इति गाथार्थः ॥ ४ ॥
१०
२०
१५
सि० व्या० - तुह सम्मत्ते इति । जीवाः - भव्यप्राणिनः अजरामरं स्थानं-मोक्षपदं अविमेन - विमाभावेन प्राप्नुवन्ति - लभन्त इत्यर्थः । न विद्यते जरा - विस्रसा यत्र तत् अजरं, न म्रियन्ते अस्मिन् इत्यमरं, बाहुलकात्, अजरं च तत् अमरं चेति 'विशेषण कर्मधारयः' । कस्मिन् सति । तव
१ 'लभन्ति' इति पाठः । २ 'मुक्तिमित्यर्थः ' इति क-ग-पाठा | ३ छाया चैवम्—
सव साम्मध्ये प्राप्ते चिन्तामणिकल्पपादपाभ्यधिके चिन्तामणिकल्पपायंवरमहिते अचिन्ता मणिकरपात्रभहिते वा ।
प्रामुवन्त्यविघ्नेन जीवा अम-राम-नं स्थानम् ॥
४ 'भ्यकमि०' इति पाठः । ५ ' प्रदत्वा ०' इति ग-पाठः । ६ 'पपत्तिः' इति क-पाठः । ७ ' भवति' इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 173 174 175 176 177 178 179 180