Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 172
________________ उवसग्गद्दरस्मरणम् । -१७ रोगाश्र मारिव दुष्टज्वराथ ग्रहरोगमारिदुष्टज्वराः इति 'इतरेतरद्वन्द्वः' । ' उवसमं' ति वक्तव्ये आर्षत्वात् हस्वाभावः ॥ २ ॥ ह० व्या॰—मत्रगर्भितस्यास्य श्रीपार्श्वनाथस्तवस्य महिमानमाह - 'विसहर' चि । यो मनुजोमनुष्यः अथवा मनुः - मत्रस्तं गच्छति - जानातीति मनुगो - मात्रिकः प्रस्तावात् श्रीपार्श्वनाथस्य । एवं विषधरस्फुलिङ्गमत्रं सदा-सर्वदा कण्ठे धारयति - कण्ठाधीनं करोति- अहर्निशं पठति ५ तस्य मनुजल रोगमा रिदुष्टज्वराः उपशमं यान्ति । विषधराः - सर्पाः स्फुलिङ्गा-अग्निकणाः तेषां उपलक्षणत्वादन्येषामपि क्षुद्रोपद्रवाणां मत्रः प्रतिहन्ता - निवारकस्तम्, अथवा 'बिसहर' चि 'फुलिङ्ग' ति शब्दानां मत्रगर्भितत्वाद् विसहरफुलिङ्ग इति मत्रः, मनसस्त्राणान्मत्रः, मत्रणाद् भाणत्वाद्वा मत्रः तम् । भगवन्नामगर्भितोऽष्टादशाक्षरात्मको मत्रो यथा - "नमिऊण पासविसहरव(वि) सहजिणफुलिङ्गः" इति । स चादौ तारत्रैलोक्पकमलाऽर्हद्वीजैः तत्त्वप्रणिपातवी - १० जाभ्यां चाष्टाविंशत्यक्षरात्मकः । यथा- “ॐ ह्रीं श्रीं अर्ह नमिऊण पासविसहरवसहजिणफुलिङ्ग ॐ ह्रीँ श्रीँ अहं नमः" इति । अयं च मत्रः श्रीधरणेन्द्र- पद्मावतीभ्यां श्रीपार्श्वयक्षेण चाधिष्ठितः, एनं मत्रं अथवा विसहरफुलिङ्ग इति नामास्त्यस्येति विसहरफुलिङ्गमान् तं विसहरफुलिङ्गमन्तं श्रीपार्श्व कण्ठे धारयति - जपति तस्य ग्रहाः - सूर्यादयो गोचरे अशुभाः भूत-प्रेत-पि शाचादीनां आवेशा वा रोगा-वात-पित्त - श्लेष्म- सन्निपातजा व्याधयः मारिः - मरकोपद्रवः १५ दुष्टा - दुर्जनाः शत्रवश्च ज्वरः - तापः अथवा दुष्टज्वरा - ऐकाहिक व्याहिक व्याहिक - शीतज्वरादिलक्षणाः एते सर्वेप्युपशमन्ति उपशाम्यन्ति - निवृत्तिं यान्ति तं न पीडयन्तीत्यर्थः । उवसीमं इत्यत्रार्यत्वात् ह्रस्वाभावः ॥ २ ॥ जि० पृ० - अधुना तृतीया गाथा व्याख्यायते चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नरतिरिए वि जीवा, पावंति न दुक्खदोर्गेचं ॥ ३ ॥ [ तिष्ठतु दूरे मंत्रः तव प्रणामोऽपि बहुफलो भवति । नरतिर्यक्ष्वपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ ] योऽयं मत्रः प्राग्व्यावर्णितसृष्टिः स तावद् दूरेऽपि तिष्ठतु - पुरश्चरणोत्तरचरणहोमतपोजपादिप्रक्रियासाध्यत्वेन कष्टावहत्वाद् दूरापास्त एवास्तां यावता तव भवतः कर्मतापन्नस्य प्रणा - १५ मोsपि प्रशब्दस्य कर्पार्थद्योतकत्वात् विशुद्धश्रद्धा पूर्वं कृतो नमस्कारोऽपि - प्रणिपातमात्रमपि 'बहुफलो' बहूनि सौभाग्या - ऽरोग्य-धन-धान्य- कलत्र-द्विपद-चतुष्पद - राज्य खर्गादीनि फलानि - कार्याणि २० १ 'पणादू' इति ख- पाठः । २ 'अ' इत्येकमक्षरं ज्ञेयम् । ३ 'शब्याधिरोगा' इति ख- पाठः । ४ 'सामंत्य (?) - मारवात्' इति ख-पाठः । 'दोह' इत्यपि पाठः दौर्भाग्येत्वर्थकः । ६ 'प्रकर्षद्योतक०' इति गन्पाठः । स. म. ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180