Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
१३
'उवसग्गहरस्मरणम् । "धनः सान्द्रे दृढे दाय विस्तारे मुद्गरेऽम्बुदे ।
सङ्के मुस्ते ( धनं मध्यनृत्तवाद्यप्रकारयोः )" ॥ इति हैमानेकार्थः (का० २, श्लो० २७४) । अथवा आर्षत्वाद् घनशब्दस्य परनिपाते धनानिदीर्घकालस्थितिकानि प्रदेशाग्राणि वा यानि कर्माणि तेभ्यो मुक्तं-पृथग्भूतमिति व्याख्येयम् । पुनः कथम्भूतम् ? 'विपधरविपनि शं' विषधराः-अनन्त-वासुकि-तक्षक-कर्कट-पद्म-महापा-५ शङ्खपाल-कुलिक जय-विजयलक्षणा दश तेषां विषं पार्थिवादिभेदभिन्नं नितरां नाशयतीति विपधरविपनि शः तं विषधरविपनि शं इति 'तत्पुरुषः' । यदिवा विष-पानीयं प्रस्तावात् 'मणिकर्णिका'नदीजलं तत्र गृह-निवासो यस्य स विपगृहः, स च अर्थात् कमठमुनिस्तस्य पं-धर्म पञ्चाग्नितपश्चर्यारूपं निर्नाशयतीति विपगृहपनि शः तं विषगृहवृषनिर्नाशं इति 'बहुव्रीहिगर्भितः 'तत्पुरुषः' । अनेन गृहस्थावस्थावदातः सूचितः । अथवा विपं-मिथ्यात्वकपायादिकं १० धारयन्ति ते विषधराः प्राणिनस्तेषां विषं-मिथ्यात्वादिरूपं निर्नाशयतीति स तथोक्तस्तं विषधरविषनि शमिति व्याख्येयम् । पुनः कथम्भूतम् ? 'मङ्गलकल्याणआवासं' मङ्गलानि चश्रेयांसि, कल्याणानि च-सम्पदुत्कर्षरूपाणि, तेपामुभयेपामप्यावास इव आवासो मङ्गलकल्याणआवासस्तं मङ्गलकल्याणआवासं, मङ्गलकल्याणानां क्रीडामन्दिरमित्यर्थः॥१॥
___ श्रीहर्षकीर्तिमूरिकृता व्याख्या अथ द्वितीयं सरणं व्याख्यायते-इदं च स्मरणं वराहमिहिरकृतश्रीसङ्घोपद्रवनिवारणार्थ श्रीभद्रबाहुस्वामिभिः कृतम् , यथा-श्रीभद्रबाहुस्वामिनो भ्राता वराहमिहिरः । स च दीक्षां गृहीत्वा चन्द्रप्रज्ञप्तिसूर्गप्रज्ञत्यादिकं शास्त्रमधीतवान् । यदा च तस्याचार्यपदं न दत्तं तदा तस्य महान् प्रद्वेषो जातः, रजोहरणादिलिङ्गं विमुच्य पुनर्ब्राह्मण एवाभवत् । ततः पूर्वाधीत- \ चन्द्रप्रज्ञस्यादिसिद्धान्तार्थान् स्मृत्वा सपादलक्षप्रमाणं ज्योतिःशास्त्रं निर्मितवान् । सिद्धान्तादु-२० द्धृतत्वात् सत्यं च जातम् । वराहमिहिरेण तु द्वादशान्दानि गच्छे स्थितवता पूर्वादिसिद्धान्तमधीयानेन सर्व ज्योति शास्त्रमन्यदपि विद्यामन्त्रयोगचूर्णादि ज्ञातम् । तद्विप्रतारितब्राह्मणैरेवमुच्यते-यदयं वराहमिहिरः सकलशास्त्रपारगामी परपुरप्रवेशाकाशगामिन्यादिविद्यास्थानमभूत् । ततोऽनेन गगनमण्डले द्वादश वर्षाणि ज्योतिश्चक्रेण सह सञ्चरता सूर्यादिग्रहाणाम् अश्वि
, “संहितैकपदे नित्या, नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु, सा विवक्षामपेक्षते ॥१॥" इस्यनेन सन्धिप्रसझे सत्यपि 'श्रीआदिनाथं नतनाकिनाथ' (भीसुमतिकल्लोलमुनिविरचिते ऋषभस्तवने), 'भीन्द्रभूतिं वसुभूतिपुत्रं ( श्रीदेवानन्दसूरिकृते गौतमाष्टके), 'वरधर्मकीर्तिऋषभो (श्रीधर्मघोपरिप्रणीते अष्टापदकल्पे), 'शरऋतूदर्चि' (श्रीजिनप्रभसूरि विरचिताया अर्थकरुपळतायाः प्रशस्तौ पृ. २३) इत्यादिवत् भन्नापि सन्धेरभावः । अपरशायमेव प्रयोगो वतेते श्रीपूर्णचन्द्राचार्यविरचितायां उपसर्गहरस्तोत्रलघुवृत्तौ । ३.
२ 'सर्वोपद्रवः' इति क-पाठः। ३ 'स्वैव' इति ख-पाठः। १ हणमश्वि०' इति खपाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180