Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
सप्त स्मरणानि । "नात्यद्भुतं भुवनभूषणभृत ! नाथ ! भूतैर्गुणैर्भुवि भवन्तममिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥१॥"
-(भक्तामरस्तोत्रे श्लो० १०) इति ( श्रीमानतुङ्गमूरि )वचनात् तमेवंभृतं पार्श्व वन्दे इति सम्बन्धः ।। ५ अयं च स्तवोऽनुज्झितश्रीपार्श्वनाथसनिधिमिः पार्श्वयक्ष-श्रीपद्मावती-धरणेन्द्ररधिष्ठित इति तत्पक्षोऽपि व्याख्यायते
तत्र पासं इति पार्श्व-पार्श्वयक्षम् । किंविशिष्टम् ? उपसर्गहरं-सम्यग्दृशा विनोपशमकर्तारम् । तथा पाशोऽस्या वामहस्तेऽस्तीत्यभ्रादित्वात् मत्वर्थीये प्रत्यये पाशा-पद्मावती
तां च । किंविशिष्टाम् ? 'काम्यघनमुत्कां' काम्यः-कमनीयो धनः-शरीरं तेन करणभूतेन १. मुद्-हर्षोऽथोत् द्रष्टणां यस्याः सकाशात् सा काम्यघनमुत्का, दिव्यवपुषा प्रमोदजनिकेत्यर्थः ताम् । विषधरो-जलधरोऽर्थात् कमठासुरसम्बन्धी तस्य विषं-जलं निर्नाशयति निजफणातपत्रधारणेन वारयति (इति) विषधरविपनि शो-धरणेन्द्रस्तं च । मङ्गलकल्याणावासमिति प्राग्वत् अथवा मङ्गलकैल्पश्रेयस्करणप्रगुणा या आज्ञा-भगवच्छासनं तया आ-समन्तात् वासना वासो वा भावना यस्य तं, कल्याणकारिभगवदाज्ञाभावितमनसमित्यर्थः । एतांस्त्रीनपि वन्दे-अभि१५ ष्टौमि । 'वदुङ् अभिवादनस्तुत्योः' (सिद्ध० धा० ) इति वचनात् । इति गाथार्थः ॥१॥
श्रीसिद्धिचन्द्रगणिकृता व्याख्या अथ पञ्चाशीत्यधिकशताक्षरमानस्य उपसर्गहरस्तोत्रस्येय(मा)माद्यां गाथामाह-उवसग्गेति । अहं श्रीपार्श्व-पार्श्वनाथं वन्दामि-अभिष्टोमि 'वदुङ् अभिवादनस्तुत्योः' (सिद्ध० धा०) इति धातोः रूपम् । कथम्भूतं पार्श्वम् ? 'उपसर्गहरम्' उपसर्गान्-देवादिकृतान् उपद्रवान् हरति २०-निराकरोतीति उपसर्गहरस्तथाभूतः पार्श्वनामा यक्षो यस्य स तथा तं उपसर्गहरपार्श्व इति 'बहुव्रीहिः' । प्राकृतत्वादनुस्वारः । “उपसर्ग उपद्रवः" इति हैमः (अभि० का० २, श्लो० ३९)। अथवा उपसर्गहरमिति पृथगेव पार्श्वविशेषणम् । पुनः कथम्भूतम् ? 'पाशम्' पश्यति कालत्रयवर्तिवस्तुजातमिति पाशः तं पाशम् 'तत्पुरुषः । प्राकृतत्वाद् दन्त्यसकारनिर्देशः । यदिवा प्रगता
आशा-आकाङ्क्षा यस्य स प्राशस्तं प्राशं इति 'बहुव्रीहिः' । निराकासमित्यर्थः । पुनः कथम्भू२५ तम् ? 'कर्मघनमुक्तम्' कर्माणि-ज्ञानावरणीयादीन्येव जीवचन्द्रमसो ज्ञानांशुमण्डलाच्छादकत्वात् . घना इव घनाः कर्मघना इति 'कर्मधारयः', ततः कर्मघनेभ्यः-कर्ममेषेभ्यो मुक्तः कर्मघनमुक्तः तं कर्मधनमुक्तं इति 'तत्पुरुषः ।
१ 'भूषण! भूतनाय!' इत्यपि सम्भवति । २ एतरपक्षे छाया अथा
उपसर्गहरं पार्थ पासा पम्दे काम्यघनमुस्काम् । विष० माया मालकापाशावासबा॥ . मोब.' इति स-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180