Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 162
________________ प्रतिबोधं विदधानाः (श्रीसम्भूतिविजयनामानो भद्रबाहुवराहाभिधानौ ब्राह्मणत- ५ नौ भ्रातरौ प्रत्यबुबुधन् । ) स च (तत्र ) वराहमिहिरस्तथाविधज्ञानावरणीयकर्मक्षयोपशमाभावात् किञ्चिदेव चन्द्रप्रज्ञत्यादिकं शास्त्रमधीतवान् । भद्रबाहुखामी तु ( चतुर्दश पूर्वाष्यधीतवान् । स च सम्भूतिविजयस्तद् ) भ्रातुः पाठादिखरूपं तदुदकं च सातिशयज्ञानेन ज्ञात्वा "बूढो गणहरसद्दो, गोयममाईहिं धीरपुरिसेहिं । जो तं वइ अपत्ते, जाणतो सो महापावो ॥ १ ॥ " - (आर्या ) इति प्रवचनरहस्यं स्मरन् न किञ्चिदाचार्यादिपदं ददौ । ततस्तस्य महान् प्रद्वेषो जज्ञे । अशुभकर्मोदयवशात् मिथ्यात्वं चासौ गतः । व्रतं रजोहरणादिलिङ्गं च विमुच्य पुनर्ब्राह्मण एवाभवत् । ततः पूर्वाधीत चन्द्र प्रज्ञत्यादिसिद्धान्तार्थान् स्मृत्वा स्मृत्वा सपादलक्षप्रमाणं ज्योतिःशास्त्रं निर्मितवान् । तच्च नाम्ना वराहमिहिरमिति प्रसिद्धिसौध शिखरमध्यास्त । सिद्धान्तादुद्धृतत्वात् प्रायः सत्यार्थं च तत् जातम् । ततो विप्रादिभिर्लोकैः पठ्यमानं परम्परयाऽद्यापि तद् वर्तते । १५ " वराहमिहिरः किल द्वादशाब्दानि गच्छे स्थितः । तत्र चाङ्गोपाङ्गपूर्वादिसिद्धान्तमधीयानेन सर्वं ज्योतिःशास्त्रं अन्यदपि विद्यामत्रयोगचूर्णादि ज्ञातं तद्विप्रतारितमिथ्यादृष्टिब्राह्मणैश्च तदन्यथोच्यते स्म यदुत - भो लोकाः ! अयं वराहमिहिरः सकलशास्त्रपारावारपारीणश्चतुर्दशविद्यानिधानः वशीकरणपरपुरप्रवेशाकाशगामिन्यादिविद्यास्थानर्भूमिरभूत् । ततोऽनेन गगनमण्डले द्वादश वर्षाणि ज्योतिश्चक्रेण सहविद्याबलात् सञ्चरता सूर्यादिग्रहाणां अश्विन्यादिनक्षत्राणां २० च सञ्चारः सम्यग् निरीक्षितः । ततस्तं चेतसि सम्यग् धृत्वा मर्त्यलोकमवतीर्य लोकोपकारायेदं ज्योतिष्कं निर्मितमिति । सा च प्रसिद्धिः सम्प्रत्यपि मुग्धैस्तच्छास्त्राध्ययनादिना सञ्जाततत्कथित तथा प्रत्ययैस्तस्य माहात्म्यमारोपयद्भिस्तथैव विस्तार्यते, न पुनरिदमवगम्यते तैर्यदेतत् भगवतो जैनागमस्यैव माहात्म्यं यदिदं किमपि तच्छास्त्रोक्तं सत्यत्वेन संवदति, तदन्तर्गतत्वात् । तदर्थानां नहि सूक्तं किञ्चिदाईतमुपदेशमन्तरेण जगत्यस्ति । यदाह श्रीसिद्धसेनदिवाकरः१ धनुश्रिमान्तर्गतः पाठः क-प्रतौ पार्श्वे लिखितोऽस्ति, ख- प्रतौ तदभावः । .२ 'चन्द्रमराठि - सूर्यप्रज्ञादिकं' इति ख- पाठः । ३ ' स्वभ्रातुः' इति ख- पाठः । -१५ ४ छाया- 2 उवसग्गहरस्मरणम् । श्रीभद्रबाहुस्वामिविरचितं ॥ द्वितीयं 'उवसग्गहर' स्मरणम् ॥ ( व्याख्यात्रितयसमलङ्कृतम् ) श्रीजिनप्रभसूरिकृताऽर्थकल्पलतानामवृत्तिः ब्यूटो गणधरशब्दो गौतमादिभिर्धीरपुरुषैः । 2 यस्तं स्थापयति अपात्रे जानानः स महापापः ॥ १ ॥ ५ ' स्थानभूमिः' इति ख- पाठः । ६ 'निधानमभूत्' इति ख- पाठा । Jain Education International For Private & Personal Use Only १० www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180