Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 137
________________ ११६ पण्डितगुणरत्नमुनिवरकृताः स्वोपमान् सर्वजनान् करोति अन्तर्भूतणिगर्थत्वात् नम् । सर्वव्यापारप्रवर्तक इत्यर्थः ॥९९॥ (नम अरहा-ऽन्त! न) 'अरहन्त०' आपो-जलं । 'रह त्यागे' (सिद्ध० धाः) रहन्तित्यजन्ति मुञ्चन्तीति अरहो-मेघाः तस्य अन्तो-विनाशो यस्मात् सः अरहान्तो-घनात्ययः, शरद् इत्यर्थः । हे अरहान्त !-हे शरत् ! त्वं । न निषेधे । 'नम' इति क्रियापदम् । मा ५ नम-मा कृशीभव । शरदोऽतिरमणीयत्वादेवमुक्तिः ॥१००॥ इति पडू ऋतवः सम्पूर्णाः ॥ अथ नव ग्रहा वर्ण्यन्ते । तत्र सूर्यचन्द्रौ पूर्व, तत्रापि चन्द्रः प्रथमः सिद्धान्तवेदिनां मते । (नमोऽरभं त्राणम्) "रः तीक्ष्णे" इति (विश्व० श्लो० १०१) वचनात् रः-तीक्ष्णः, न रः अरः, शीत इत्यर्थः । अरा-शीता भा-कान्तिः यस्य स अरभः-शीतगुः तं नमो ऽस्तु । चन्द्रं किम्भूतं? त्राणं-शरणं, सर्वनक्षत्राणां ग्रहाणां च नायकमित्यर्थः ॥ १०१॥ १० अथ सूर्यः। (नमो रभं ता-ऽऽ-नम्) रा-तीक्ष्णा भा-कान्तिः यस्य स रभः, सूर्य इत्यर्थः। रभाय-सूर्याय नमः। 'व्यत्ययोऽप्यासाम्' (आसां) विभक्तीनां व्यत्ययोऽपि स्यादिति वचनात् चतुर्थ्यर्थे द्वितीया । चः पूर्वोक्तार्थसमुच्चये । किम्भूताय रभाय ? 'तानाय । “तकारस्तस्करे युद्धे” (सुधा० श्लो० २३) इत्येकाक्षरवचनात् ताः-चौराः तेषां आ-समन्तात् नो-वन्धनं यस्मात् स तानः तस्मै । सूर्योदये हि चौराणां वन्धनं भवति ॥ १०२ ॥ १५ अथ भौमः । (न मौ अर! हन्ताऽऽन !) हे अर! । अरः किम्भूतः ? 'आनः' आकारस्य नो-वन्धो यत्र, एतावता आरः-कुजः । किम्भूतः ? 'हन्तः' हो-जलं तस्य अन्तो यस्मात् स तथा, एवंविधो न, जलदाता इत्यर्थः । किम्भूतः सन् ? 'मोः' "मश्चन्द्रे (च) विधौ शिवे' इति ( सुधा० श्लो० ३४) वचनात् मः-चन्द्रः तं अवति-प्रामोतीति विपि मौः । चन्द्रयुक्तो हि भौमो वर्षाकाले वृष्टिदः ॥ १०३ ॥ २. अथ बुधः । (न मौजोरै० भं तानः) मो-ब्रह्मा । सः अवति-देवतात्वेन स्वामीभवति । विपि मौः। स्वाम्यर्थे अवधातुः । ततो मौः-रोहिणीनक्षत्रं, तस्मात् जायते इति मौजोबुधः । “श्यामाङ्गो रोहिणीसुतः" इति (अभिधान० का० २, श्लो० ३१) वचनात् 'रिहं' राः-धनं, तदेव भं-भवनं, धनभवनमित्यर्थः, तत्र गत इति शेपः । 'तानः' तां-लक्ष्मी'. आनयतीति तानः। एवंविधो न ? किन्तु एवंविध एवेति काकूक्त्या व्याख्येयम् । धन२५ भवनस्थो हि वुधो लक्ष्मीप्रद इति ज्योतिर्विदः। रैशब्दस्य 'एत ऐत्' (सिद्ध०८-१-१४८) 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) इतीकारः ॥ १०४ ॥ .. अथ गुरुः। (नमः अद-ल-हन्ता आ-नः) "लश्चामृते" इति (सुधा० श्लो०३९) वचनात् ल:-अमृतम् , अदनम् अदो-भोजनम्, अदे-भोजने ल:-अमृतं येषां ते अदला-देवाः, तान् हन्ति-गच्छति आचार्यतया प्रामोति अदलहन्ता-सुराचार्यः, जीव इत्यर्थः । किम्भूतः। १ सोद्यमान्' इति ख-पाठः । २ 'उमाङ्गो' इति स्व-पाठः । ३ "वृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः" इति अभिधान०(का. २, श्लो. ३२)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180