Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 138
________________ नमस्कारप्रथमपदार्थाः ११७ 'आनः' आ-समन्तात् नो-ज्ञानं यस्मात् स आनः-ज्ञानदाता। किम्भूतः सन् ? 'नमः' नो-बुद्धिः पञ्चमं भवनं तत्र 'मदुङ् स्तुति-मोद-मद-स्वप्न-करन्ति-गतिषु' मन्दते-गच्छति नमः डप्रत्यये सिद्धम् । लग्ने हि पञ्चमभवनस्थो गुरुर्ज्ञानदाता स्यादिति ॥ १०५ ॥ ___ अथ शुक्रः । (नम उन्द-ल-भं तानम्) 'तानः' तकारस्य पोडशव्यञ्जनत्वात् तशब्देन पोडश उच्यन्ते । 'अपी असी गत्यादानयोश्च' (सिद्ध० धा० ) इत्यत्र चानुकृष्टदीप्त्यर्थात ५ असूधातोः विपि असू इति रूपम् । असो-दीप्तयः, किरणा इति यावत् । ततः ता:-पोडश असः-किरणाः तेषां नो-बन्धो योजना यस्य स तानः-शुक्रः। सन्धी, दीर्घ 'अन्त्यव्य. ञ्जनस्य' (सिद्ध०८-१-११) इति सलोपे प्राकृते रूपसिद्धिः । व्यञ्जनैश्च सङ्ख्याप्रतिपादनं ग्रन्थप्रसिद्धम् । यदुक्तं आरम्भसिद्धौ"विद्युन्मुख १ शूली २ शनि ३ केतू ४ का ५ वज्र ६ कम्प ७ निर्घाताः ८। १० डा ५ ज ८ ढ १४ द १८ ध १९ फ २२ व २३ भ २४ सङ्ख्ये रविपुरत उपग्रहा धिष्ण्ये ॥१॥" इत्यादि । “पोडशाचिर्दैत्यगुरुः” इति (अभिधान० का० २, श्लो० ३४) वचनात् तानः-पोडशकिरणः, शुक्र इति यावत् । तं शुक्रं नम, धातूनामनेकार्थत्वात् भजस्वेत्यर्थः । किम्भूतं ? ऊ अरहं । 'उन्दैप क्लेदने' (सिद्ध० धा०) उनत्ति-रोगैः क्लिन्नो भवति उन्दः तस्य । “लश्चामृते” इति (सुधा० श्लो० ३९) वचनात् लः-अमृतं तं भव-१५ तेऽन्तर्भूतणिगर्थत्वात् 'भूङ् प्राप्तौ' ( ) धातोः प्रापयति डे रूपं उन्दलभः तम् , रलयोरैक्यम् । रोगार्तस्य हि शुक्रोऽमृतदाता । सञ्जीवनीविद्या शुक्रस्यैवेति तद्विदः। अथवा "भश्चालिशुक्रयोः" इति (सुधा० श्लो ३३) वचनात् भ:-शुक्रः । अरः-शीघ्रगामी चासौ भश्च अरभः तं नम-सेवस्व । उ इति सम्बोधनम् । किम्भूतं भम् ? 'तानं' शुभकायाणि तानयति-विस्तारय(ती)ति तानः तम् । शुक्रो हि शीघ्रगामी अनस्तमितः शुभा, शुभ-२० कार्याय भवति ॥ १०६ ॥ अथ शनिः । (नमोऽरं हन्ता आनम् ) "आरः क्षितिसुतेऽर्कजे" इति विश्वप्रकाश(रवर्गे २२)वचनात् आरः-शनिः । 'स्वराणां स्वराः' (सिद्ध०८-४-२३८) इति प्राकृते अर इति जातम् । अथवा अरः कथम्भूतः? 'आनः' अकारस्य नो-वन्धो यत्रेत्यनया व्युत्पत्त्या आर इति जातम् । आरं-शनि नमोऽस्तु इत्युपहासनमस्कारः। यतो हन्ता- २५ जनपीडकः तस्मात् हे आर! त्वां नमोऽस्तु इत्यर्थः ॥ १०७ ॥ अथ राहुः । (न-म उदरहः तानः) 'उअरह' उंदरेण हीयते उदरहो-राहुः । राहुस्तु उदरहीनः, शिरोमात्ररूपत्वात् , तस्य । किम्भूतः? 'नमः' 'नशौच अदर्शने' (सिद्ध धा०) नश्यतीति डे नः । एवंविधो मः-चन्द्रो यस्मात् सः, उपलक्षणात् सूर्योऽपि । 'नमः उ भर-भं तानं' इत्यपि पदच्छेदः। २'उदरे' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180