Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 148
________________ अनुयोगचतुष्टयव्याख्या । १२७ सः सोमे सोमपानेऽपि सूर्ये पक्षिणि तापसे । वृपे च सः सदानन्दे सा स्त्रियां संवने घने११२ यौवनेपि समासे च वस्तुवृन्दे समाहृतम् । पूजायां सु निपातोऽस्ति सर्वधूवच्च मातरि॥११३॥ सोमसूः सूः सुवी पुंसि प्रसवार्ता नितम्बिनी । सं सिः पुंसि परोक्षेऽपि सा च देवी सरस्वती। हं हर्षे चैव हिंसायां हीरे हारे हरौ च हः । हौस्त्यागे च रणे ज्याधः क्षः क्षं क्षेत्रे क्षये गृहे११५ ___ इति श्रीविश्वशम्भुप्रणीता एकाक्षरनाममालिका समाप्ता।। शके १७२३ दुर्मतिनामसंवत्सरे माघशुद्धदशम्यां गुरुवासरे तहिने बरवोपनामक केशवसूनुबाळकृष्णाख्येन लिखितम् ॥ श्रीकृष्णार्पणमस्तु ।। श्रीजिनप्रभसूरिविरचिता अनुयोगचतुष्टयव्याख्या। श्रीप्रवचनाय नमः। इह प्रवचने चत्वारोऽनुयोगाः, तद्यथा-चरणकरणानुयोगो १, धर्मकथानुयोगो २, गणितानुयोगो ३, द्रव्यानुयोगश्च ४ । तत्राद्यः कालिक श्रुते ओघनिर्युक्त्यादौ च प्ररूप्यते । द्वितीय ऋषिभाषितोत्तराध्ययनपष्ठाङ्गादौ । तृतीयः सूर्यप्रज्ञप्त्यादौ । चतुर्थो दृष्टिवादे । श्रीवज्रस्वामिनं यावदपृथक्त्वानुयोग आसीत्, एकस्मिन्नेव सूत्रे चतुर्णामपि अनुयोगानां तदा व्याख्यानात् । ततोऽर्वाग् आर्यरक्षितादारभ्य पृथक्त्वानुयोगः, प्राक् १५ कथितप्रतिनियतसूत्रेषु पृथक् पृथक् तेषां प्ररूपणात् । तत्राभियुक्तविद्वच्छिष्याणां कथमेकत्रैव सूत्रे चत्वारोऽनुयोगाः पूर्वैर्व्याख्यायन्ते स्मेति तत्कौतूहलपूरणार्थ चतुर्दशपूर्ववित्श्रीभद्रबाहुस्वामिप्रणीतावश्यकनियुक्ति(३३६)गाथायां अपृथग्विभागोपदर्शनवास्तवार्थायां चत्वारोऽपि ते यथाप्रज्ञं लेशतो दर्यन्ते । सा चेयं गाथा "पउमाभवासुपूजा रत्ताससिपुप्फदंत ससिगोरा। ' सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥" . अत्र प्रथमपादे गणितानुयोगः, तत्र 'पर' इति पौषः, पौरादित्वात् औकारस्य अनु आदेशे आद्याक्षरद्वयेन पौषः, 'मा' इति माघः, 'भ' इति भाद्रपदः, आनायादेषां सितपक्षेऽकारप्रश्लेषात् 'अव' इत्यवमराने तिथिहासे 'लुक्' (सिद्ध०८-१-१०) इत्यकारलोपे पउमाभ(व) इति सिद्धम् । सम्प्रति फलमाह'असुपूज्जा' इति । ( 'सु' इति सुभिक्षम् ) असु-दुर्भिक्षम् , 'पू' इति पुहवीलोगा पुहवीसो वा तस्या 'जा' इति ज्यानिः-विनाशः। तथा चाहुः ( ख-'समाख्याते'। Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180