Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 144
________________ श्रीविश्वशम्भुप्रणीता ॥ एकाक्षरनाममालिका ॥ ध्यात्वा नत्वा निरीक्ष्यान्तःकरणे कर्मसाक्षिणि । क्रियते नूतना नाममालैकाक्षरवाचिका ॥१॥ यतयो ये परं पारं शब्दाम्भोधेगेता यतः । एषा तेषामतो मान्या महाभावमनीषिणाम् ॥ २॥ खमेवार्थ स्वयं रान्ति यतोऽकारादयः खराः । स्वराभावे ककारादि व्यञ्जनं व्यर्थमेव हि ॥३॥५ न क्षरत्यक्षरं तेन स्वर एव तदुच्यते । व्यञ्जनानि स्वराश्चैव वर्णशब्देन वर्णिताः॥४॥ अः शिवे केशवे वायौ ब्रह्मचन्द्राग्निभानुपु । आः स्वयम्भूस्तथोक्ते स्यादव्ययं कोपपीडयोः॥५॥ एपामपत्ये कामे स्याद् इ: सम्बोधनकोपयोः । इः कुत्सार्थेऽपि कामेऽपि निषेधे नयनभ्रमे ॥६॥. ईः रमा मदिरामोहे महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुणाद्यन्तो नान्तोऽसाल्लोपनं सुपः॥७॥ ईय? योऽत्र जसा रूपं स्यादमा रूपमीञ् शसि । ईशब्दो द्रव्यपर्यायेऽव्ययं वृद्धैः प्रदर्शितम् ॥८॥१० उशब्दः शङ्करे तोये तोयधौ धरणीधरे । अवसाने वितर्केऽपि वचनावसरेऽव्ययम् ॥९॥ एतदर्थे निषेधेऽपि निर्णीतो दीर्घ ऊरपि । ऊ मान्तमव्ययं कोपे स्वार्थेऽप्यू च प्रकीर्तितः ॥१०॥ रक्षार्थवाचकावेतों व्याख्यातौ लघुदीर्घकौ । ऋशब्दः पावके सूर्ये धर्मे दाने धने पुमान् ॥११॥ आ अरौ अर एतानि अरं चारौ च ऋन् शसि । ऋदी? देवमाता स्याद् ऋभवस्तेन ते सुराः १२ स्त्रीलिङ्गोऽयं धने वह्नौ वासवे वरुणालये । ऋ रौ रो रूपमेतस्य सन्धिसामान्यसाधनम् ।। १३ ॥१५ लहवो लघुसंवादे शक्तौ सर्पिपि मातरि । लघ्वक्षरेपि ल क्लीवे दीर्घलुर्देवमातरि ॥ १४ ॥ वाराह्यां वर्तते दीर्घः सौदामिन्यामिदं द्वयम् । सर्प मत्रे तथा तवे लद्वयं लुकि वर्तते ॥१५॥ केऽपि दीर्घ न मन्यन्तेऽनुकृतौ मन्वते परे । कामसम्बोधने स्यादे तत ए ब्रह्म केवले ॥ १६ ॥ . एशब्देनोदिता चण्डी गोचरी गोपनेऽव्ययम् । ऐ स्वर्णेऽपि च पुंल्लिङ्गः शम्भुश्रीपतिवायुषु १७ सारदायां स्वरे सूर्ये मूच्छोयामैरपि स्मृतः । ओशब्दो रक्षणे शेषे सूत्रे पुंसि श्रुतावपि ॥१८॥ १. औः समुद्रे जलेऽनन्ते पीडने पुंसि भाषणे । अं मान्तो ब्रह्मसंवादे परब्रह्मप्रवाचकः ॥ १९ ॥ व्यसने व्याधिते व्याधी ज्ञानविज्ञानवन्दने । अः सान्तः शङ्करे सूर्ये दानादानप्रदीप्तिषु ॥२०॥ सत्तायां क्षेपणे खेदे तथाऽऽश्चर्ये च निन्दके । को ब्रह्मात्मप्रकाशार्ककेकिवायुयमाग्निषु ॥ २१॥ कं मौलिसुखतोयेषु कशब्दः सर्वलिङ्गकः । सर्वनामगणोक्तो यस्तस्य रूपं त्रिलिङ्गकम् ॥ २२॥ कुः स्त्रियां भुवि कुत्सायामव्ययं कुप्रकीर्तितम् । कः का किं शब्दयोर्मान्तः कं कान्तौ कामवाचकम् २५ पाच्यलिङ्गः खशब्दोऽर्के वितर्के व्योम्नि वेदने । प्रश्ननिन्दानृपक्षेपसुखशून्येन्द्रिये दिवि ॥२४॥ पुनः कर्मसाक्षिणमिति विभक्तिविपरिणामः । कर्मसाक्षिणो भगवतोऽधिष्ठानभूतस्य अन्तःकरणस्याधिष्ठातृमाहारम्यादेव कर्मसाक्षित्वं ज्ञापयितुमत्र सप्तमी । तेन च तदधिष्ठातृप्रेरणाबलादेव मया नूतना नाममाला करप्यत इति भावः । उक्तं च-"शब्दाम्भोधिर्यतोऽनन्तः कुतोऽप्यगमदव्ययात् । सरस्वत्याः प्रसादेन कविनाति यत्पदम् ॥ प्रसिदमप्रसिदं वा सम्प्रमाणं च साधवः ॥" इति । २ ख-'सानुपु । ३ ख-'सर्वर्पिमातरि'। ४ ख-'ते तथा'। ५ क-स्वेदे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180