Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 139
________________ ११८ पण्डितगुणरत्नमुनिवरकृताः राहुस्तु चन्द्रसूयौँ प्रस्यति(सते ?) इति राहोश्चन्द्रनाशः । पुनः किंविशिष्टः? 'तान' तोयुद्धं तस्य नो-बन्धो रचना यस्मात् स तथा । राहुसाधनापूर्व (सूर्यशशिभ्यां ) युद्ध क्रियते इतीदं विशेषणं युक्तिमत् ॥ १०८॥ अथ केतुः। (न मा उदरह-त-ऋणम् ) उदरहो-राहुः । पूर्ववद् व्याख्या । तस्य तः५ पुच्छं केतुः । “तकारस्तस्करे युद्धे कोडे पुच्छे च" (सुधा० श्लो० २३) इत्येकाक्षरवचनम् । केतुस्तु राहुपुच्छत्वेन ज्योतिर्विदां संम्मतः । यतः-"तत्पुच्छे मधुहायां आपदुःखं विपक्षपरितापः” (नीलकण्ठ्यां ?)। अत्र तत्पुच्छ इति राहुपुच्छं, केतुरित्यर्थः इति ताजिके । हे उदरहत] ! त्वं ऋण-ऋणवदाचर । मा निषेधे । ऋणं यथा दुःखदायि तथा केतु रपि उदितः सन् जनपीडाकरः, तत एवमुच्यते । त्वं मा ऋण । नकारोऽपि निषेधार्थे । १५ "द्विर्वद्धं सुबद्धं भवति" इति निषेधद्वयम् । विशेषेण निषेधाय इति ॥ १०९ ॥ अथ नव रसा वर्ण्यन्ते । तत्र पूर्व शृङ्गाररसः। (नमोदरि ! हन्त अण) यथा कश्चित् कामी कुपितकामिनीप्रसत्तिकृते वक्ति । हे नमोदरि! हे कृशोदरि! त्वं अणवद । हन्तेति कोमलामन्त्रणे । नम-नमत् कृशं उदरं यस्याः सा नमोदरी-क्षामोदरी तस्याः सम्बोधनम् ॥ ११०॥ इति नमस्कारप्रथमपदार्थाः ॥ १. पं० हर्षकुलगणिपादकृताः पं० समयकलशस्य लघुशिष्येणालेखि(पत)। 'प्रसिदः' इति ख-पाठः। २ भवशिष्टरसाष्टकस्य व्याख्या न विद्यते सत्र को हेतुरिति विचार्यतां विच. क्षणः। इति श्रीपरमगुरुथी जिनमाणिक्यसूरिशिष्यपण्डितविनयसमुदगुरुराजपादुकाप्रसादासादिताधिगमनपण्डितगुणरलमुनिना लिखितम् । श्रीः श्रीः शुभं भवतु' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180