Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 135
________________ पण्डितगुणरत्नमुनिवरकृताः अथ पद्मसरः । (न मोद् र हान्ताः न) रो वर्तते । किम्भूतः १ 'हान्ताः' हकारोऽन। यस्य । एतावता सकारः। तेन असति-शोभते इति हान्तास् । एतावता सरः इति जातम् । अजानि-कमलानि श्रयतीति णिचि विपि तल्लोपे अन्त्यस्वरादिलोपे । 'पदस्य' (सिद्ध २-१-८९) इति जलोपे च 'अब्' इति जातम् । 'अन्त्यव्यञ्जनस्य' (सिद्ध०८-१-११ ५ इति प्राकृते वकारस्यापि लोपे अम् इति स्थितम् । एतावता पद्माश्रितं सर इत्यर्थः। किम्भूतम् ? मोदयति मोद्, एवंविधं न न । प्रकृतार्थे द्वौ निषेधौ । हर्षकारकमेवेत्यर्थः ॥ ८८॥ अथ सागरः । (नम-ऊ-जलध्यन्तः-आनन्) नमं नमनं-सर्वत्र प्रसरणं तेन ऊः-शो. भमान एवंविधो जलध्यन्तः-समुद्रः। अन्तशब्दः स्वरूपे । किम्भूतः ? "टुनदु समृद्धी' १० (सिद्ध० धा०) आपूर्वः नद् । आनन्दयति-समृद्धि प्रापयति सेवकान् , रलाकरस्यात् । विचि 'आनन्' इति सिद्धम् ॥ ८९ ॥ अथ विमानः । (नम ओ अ-र-ह-अन्त ! ऋणम्) अन्तशब्देन 'पदैकदेशे पदसमुदायोपचारात्' निशान्तं-गृहम् । "रः कामे तीक्ष्णे वैश्वानरे नरे" इत्येकाक्षर(सुधा० श्लो. ३६) वचनात् रो-नरः न रः अरः । अरो-देवः । अरान्-देवान् हन्ति-गच्छति प्रामोति १५ देवाश्रितत्वात् अरहम् , एवंविधं अन्तं-निशान्तं अरहन्तम् , अमरविमानमित्यर्थः । तस्य सम्बुद्धौ हे अरहन्त ! त्वं ऋणं-दुःखं नामय-पराकुरु । 'नम' इत्यत्रान्तर्भूतो णिगर्थः । 'ओ' इति 'हे'इत्यर्थे ॥ ९ ॥ (नः म-ऊत-र-अहर-अन्त-गण) “मश्चन्द्रे (च) विधौ शिवे" इति (सुधा० श्लो. ३४) वचनात् मः-चन्द्रः तेन ऊतं-कान्तं मोतं, चन्द्रकान्तमित्यर्थः । र:-अग्निः तत्तुल्यं, २० तथा अहर्-दिनं । अहः करोति णिजि क्विपि अहः-सूर्यः तद्वदन्तः-स्वरूपं यस्य, सूर्य कान्त इत्यर्थः । एतावता चन्द्रकान्ते वह्निवर्णसूर्यकान्तादीनि रत्नानि । उपलक्षणादन्यान्यपि रत्नानि ग्राह्याणि । तेषां गणः-समूहोऽस्ति । 'क-ग-च-ज-(त-द-प-य-वां प्रायो लुक्) (सिद्ध०८-१-१७७) इति गलुक् । 'पदयोः सन्धिर्वा' (सिद्ध०८-१-५) इति सन्धिः । यथा चक्काउ चक्रवाकः । 'णिश समाधी' (सिद्ध० धा०) नेशति-समाधिं करोति चित्त२५ स्वास्थ्य निर्मापयतीति डे नः॥ ९१॥ अथाग्निः । (नम ओ अज-रथं त्रि-अणम्) अजः-छागो रथो-वाहनं यस्य सः अज. रथो-वह्निः तं व्यणं त्रयोऽणाः शब्दा यस्य सः, 'त्रिविधोऽग्निरिति कविसमयः । 'ओ' इति सम्बोधने । तं नम-प्रणमेति स्वप्नाः १४ ॥ ९२ ॥ (नमो अरहंताणं) नं-ज्ञानं । अरहन्ताणम्-अत्यजतां पुरुषाणां उख् भवति । 'उख ३० नखेति गत्यर्थो दण्डकधातुः। 'ओखणं ओम्' विचि सिद्धम् । अन्त्यव्यञ्जनलोपे ओ 'चकाओ' इति ख-पाठः। २ 'निर्मातीति' इति ख-पाठः।।दक्षिण-गार्हपत्या-हवनीयस्थानीयः।। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180