Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 134
________________ नमस्कारप्रथमपदार्थाः गंज-वृषभ-सिंह-पद्मा-सन-स्रक्-चन्द्र-तपन-पताकाः । कुम्भा-ऽम्भोजसरो-ऽम्बुधि-विमान-रत्नोच्चयाऽग्नयः स्वप्नाः ॥-गीतिः (इति) चतुर्दशस्वप्मनामानि, तत्र चत्वारि व्याख्यातानि । अथ स्रक् व्याख्यायते (नम-ऊ-अलि हन्त-आः नम् ) ह-जलं तस्मात् तन्यते-विस्तरति उत्पद्यते इति यावत् हन्तं-कमलं कर्मकर्तरि डः कमलस्योपलक्षणादन्यान्यपि पुष्पाणि गृह्यन्ते। 'आसिक् ५ उपवेशने' (सिद्ध धा०) आसनं आस् । कमलादिपुष्पाणाम् आः-स्थानम् , एवंविधो यो नो-वन्धो रचनाविशेषः सकपः तत् हन्तानं क्लीवत्वं प्राकृते लिङ्गस्यातन्त्रत्वात् । किम्भूतम् ? 'नमो अरि' रलयोरक्यं । नमः-प्रह्वीभावः परितो भ्रमणं तेन ऊः-शोभमाना अलयो यत्र तत् । अवतेः शोभावाचिनः विपि ऊः॥ ८३ ॥ __(न मोऽरिहन्ता न णं) मः-चन्द्रो वर्तते । किम्भूतः ? 'णसि कौटिल्ये' (सिद्ध० धा०) १० नसते इति नः 'क्विप् । 'अभ्वादेः (अत्वसः सौ ) (सिद्ध०१-४-९०) इति न दीर्घः, भ्रादित्वात् । न नः-न कुटिलः, पूर्ण इत्यर्थः । एवंविधश्चन्द्रोऽरिहन्ताऽस्तु । 'ण' इत्यत्रानुस्वाराभावश्चित्रत्वात् ॥ ८४ ॥ ___ अथ सूर्यः । ( नमो अर्-अहस्तानम् ) अहर-दिनं तनोति-करोति अहस्तानो-दिनकरः । अरा विद्यन्ते यत्र तत् अरि-चक्रं तद्वदाचरति वृत्तत्वादाचारे क्यनि विपि तयो-१५ लोपे अर , अर् चासौ अहस्तानश्च वृत्तो दीप्यमानश्च सूर्यस्तं नमः ॥ ८५ ॥ (नमोदन रंह तानम् ) तानोद्भवत्वात् तानं-वस्त्रं, कारणे कार्योपचारात् । तानं किम्भूतम् ? 'नमोदन्' नम-नमनं सर्वदिक्षु प्रसरणं तेन अवते-कान्तिमद् भवति । क्विपि न मु दण्डं श्रयति । णिजि क्विपि पदस्य उलोपे दन् । न मु च तद् दन् च नमोदन् । एतावता ध्वज इत्यर्थः । 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) इत्योकारः। तं २० ध्वजं त्वं रह-जानीहि । 'रहण गतौ' (सिद्ध० धा० ) 'गत्यर्था ज्ञानार्था' इति वचनात् ज्ञानार्थत्वम् । चान्द्रमते णिचोऽनित्यत्वाणिजभावे रहेति सिद्धम् । अनुस्वारस्तंदसत्त्वं चित्रत्वाददुष्टम् ॥ ८६ ॥ अथ कुम्भः। (न मा ओ कलः! हा-न्तं अण) ओ कलः! कलशं श्रयति णिजि क्विपि सम्बोधने । ओ कलः! 'ओ' इति सम्बोधनपदम् । हे कलशाश्रयिन् ! पुरुष! त्वम् । 'हिंट २५ गतिवृद्धयोः' (सिद्ध० धा०) हयनं हो-वृद्धिः तस्या अन्तं-विनाशं न-मा अण-बद । कलशाश्रयिणः पुरुषस्य वृद्धिरतो न स्यात् । कामकुम्भो हि कामितकरः, तेनैवमुच्यते । नकार-मकारी निषेधवाचकौ । एकनिषेधेऽर्थसिद्धी द्वितीयनिषेधः "द्विर्वद्धं सुबद्धं भवति" इति न्यायादवगन्तव्यः। लोकप्रधानत्वापेक्षया च निषेधद्वयं 'मा' 'न' करि २ इत्यादि ॥८७॥ १ क-प्रतो नास्त्यत्रायं पाठः गजादिको व्याख्यातान्यन्तकः, किन्तु चतुर्दशस्वम नामप्रान्तकः समस्ति ९३तमस्यार्थस्य प्रारम्भे । २ 'शोभाचात्' इति क-पाठः। ३ 'किपि' इति ख-पाठः। ४ 'सद.' इति ख-पाठः । ५ 'म' इति स्व-पाठः। अर्थ. १५ www.jainelibrary.org For Private & Personal Use Only Jain Education International

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180