Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 132
________________ नमस्कारप्रथमपदार्था 'खोः प्वय् व्यञ्जने लुक्' (सिद्ध० ४-४-१२१ ) इति यलोपे अरहन्ता । बन्दिमोक्षकरोमन्त्रमण्यादिः पदार्थो दैत्यभयवारको भवति । 'णं' पूरणे ॥ ६९ ॥ (न-मोऽरहन् त्राणम्) 'न' शब्देन ज्ञानं तच्च पञ्चसङ्ख्यम् । एतावता नं पञ्चसङ्ख्याया मं- ज्ञानं यस्य स नमः - पञ्चमज्ञानवान् केवली । 'मांङ्क मान - शब्दयोः' (सिद्ध० धा० ) । मीयते इति मं - ज्ञानम् । बाहुलकाद् भावे डप्रत्यये सिद्धम् । केवली किम्भूतः ? ' अरहन्' ५ अरा-देवाः तान् हन्ति - गच्छति प्राप्नोति अरहन् । देवस्य सेव्य इत्यर्थः । त्राणं- षङ्काय १११ रक्षकश्च ॥ ७० ॥ (न-मा-ऊ अ-र-हा-न्तेभ्यः) अकारं रियन्तीति डे अराः । 'रिंतु गतौ' अकारप्रापकाः । हकारोऽन्ते येषां ते हान्ताः, अकारादयो हकारान्ता वर्णा इत्यर्थः । 'नमो' नं-ज्ञानं माशब्दः 'माक्रू मान- शब्दयोः' (सिद्ध० धा० ) इति तयोः औ: - अवगमनं भवति । अव - १० धातुरवगमनार्थेऽपि वर्तते । अवनं ऊः भावे विपू । 'अरहंताणं' इत्यत्र चतुर्थी ज्ञेया । वर्णभ्यो ज्ञानं शब्दावगमश्च स्यादित्यर्थः ॥ ७१ ॥ 1 1 ( नमोदरा - भक् त्राणम्) त्राणशब्देन बृहत्पूपिकोघ्यते जैनमुनिभाषया । ये लोके मण्डका इति प्रसिद्धाः ते साधूनां त्राणका इति । त्राणानां समूहो त्राणम् । समूहार्थे अणू । त्राणं किम्भूतम् ? नम-नमत् उदरं यस्याः सा नमोदरा - बुभुक्षा तां भनक्कीति क्विपू १५ 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८ ) इत्यकारः ।। ७२ ।। (न मौक-रहः ता-ऽऽनः) "मूको दैत्याऽवागदीनेषु" इत्यनेकार्थसङ्ग्रहः (हैमे का० २, श्लो० ३० ) मूकानां समूहो मौकम् । 'पष्ठ्याः समूहे' (सिद्ध० ६-२-९) इत्यण् । 'रह त्यागे' (सिद्ध० धा० ) मौकं रहति मौकरहो न स्यात् । कः ? तां - लक्ष्मीं आनयतीति तानः । धनोपार्जकः दीनसमूहवर्जको न स्यात् । दीनसमूहं प्रीणयतीति स दीनैः सेव्यत इ- २० त्यर्थः ॥ ७३ ॥ ( नमो-गा ण-रहन्तः) "णः प्रकटे निष्फले व प्रस्तुते ज्ञान- बन्धयोः” इति (सुधा० ) एकाक्षैरनाममाला (श्लो० २२ ) वचनात् णो- बन्धः, कर्मवन्ध इत्यर्थः । तं रहन्तः - त्यजन्तः पुरुषाः 'नमोगाः स्युः । नमः - नमस्कारं गच्छन्ति प्राप्नुवन्तीति नमोगाः - नमस्कारार्हाः स्युः ॥ ७४ ॥ (न-मोचः ण-रहन्तः) णं - ज्ञानं रहन्तः - प्राप्नुवन्तः पुरुषाः 'नमोचः' स्युः । नमन्तीति डे नाः - प्रणामकारिणः तान् मोचयन्ति संसारात् नमोचः, णिगन्सात् क्किए । 'रहु गतौ' (सिद्ध० धा० ) रहन्त इत्यत्रानुस्वाराभावश्चित्रत्वात् ॥ ७५ ॥ Jain Education International (न माऊ: अरहन्तः णं) 'णसि कौटिल्ये' (सिद्ध० धा० ) नसनं नः कौटिल्यम् । अरहन्तः-अप्राप्नुवन्तः पुरुषाः णं प्रकटं यथा स्यात् तथा अवन्ति - दीप्यन्ते इति विपि ऊः । ३० १ नमोः इति ख पाठः । २ 'भवनमोः' इति ख- पाठः । ३ 'क्षरवचनात्' इति ख- पाठः । For Private & Personal Use Only २५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180