Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
नमस्कारप्रथमपदार्थाः
१०९
तं अणति वदति यः तं प्रज्ञापनादिसिद्धान्तवेदिनं नमः -प्रणतोऽस्मीत्यर्थः । 'अवर्णो यश्रुतिः' (सिद्ध० ८-१ - १८० ) न यकारवा हुलकात् इति अगारिरित्यत्र ॥ ५४ ॥
( नमोऽर्ह त्वमत णम् ) णं- ज्ञं पण्डितं पुरुषं त्वम् अत - जानीहि । 'अत सातत्य - गमने' (सिद्ध० धा० ) । 'गत्यर्था ज्ञानार्थाः ' । किम्भूतम् ? नमोऽर्ह - प्रणामयोग्यम् ॥५५॥
(न-म-उ अर्हदृणम्) 'अरिहंताणं' अर्हन्- तीर्थकरः तस्य ऋणं कर्म तीर्थकर नामकर्मे - ५ त्यर्थः । किम्भूतम् ? 'नमो' नो-ज्ञानं मः- शिवं तयोः कः - प्राप्तिः यस्मात् । यत् कर्म - युदिते परमज्ञानं मोक्षश्च प्राप्यते एवेत्यर्थः ॥ ५६ ॥
( नमोत्तरी : हा - sन्ता) 'नमोत्तरी : ' नमा नमन्ती उत्-ऊर्ध्वं गच्छन्ती एवंविधा तरीः-नौः। किम्भूता ? ' हान्ता' हं जलं तस्य अन्तः - प्रान्तो यस्याः एवंविधा न स्यात् । क्षणं नमति क्षणाच्चोद्धं याति तया नावा जलप्रान्तो न स्यात्, जलप्रान्ते न गम्यते १० इत्यर्थः ॥ ५७ ॥
(नृ-मोऽरि हताऽऽनः ) ना - पुरुषः तस्य मो - मस्तकः । किम्भूतः ? 'हतानः ' "हः शूलिनि करे नीरे” (सुधा० श्लो० ४५) इति ह: - - ईश्वरः तस्य ता - शोभा तां आनयतिवर्धयति (इति) हतानः । नरमस्तको हि ईश्वरशोभाकरः तदाभरणं शिवस्य वर्तते । 'अरि' सम्बोधने ॥ ५८ ॥
( नम अजं हताऽनम् ) अजं - विष्णुं नम-प्रह्वीभव । किम्भूतम् ? 'हतानः' हतः अनः - शकटदैत्यो येन तम् । 'इ-जे-राः पादपूरणे' (सिद्ध०८-२-२१७ ) इति सूत्रात् इकारमुक्तो रेफः पादपूरणे ॥ ५९ ॥
( न मा अजोऽरिहन्ता णम्) अजो - रघुतनयः अरिहन्ता - सर्ववैरिविनाशी अभूत् । 'णं' अलङ्कारे । 'मा' 'न' इति निषेधद्वयं प्रकृतार्थम् ॥ ६० ॥
३०
(नृ-मोदं रह तानम् ) 'नमो अरहंताणं' अयमपि पाठोऽस्ति । ताना एकोनपञ्चाशत् । तानं - गीततानं रह - जानीहि । 'रहुण गतौ' (सिद्ध० धा० ) । गत्यर्थाश्च ज्ञानार्थाः । तानं किम्भूतं ? 'नृमोदं' नृणां पुरुषाणां मोदो यस्मात् ॥ ६१ ॥
(न मोचय अर्हदाज्ञाम् ) अनेन पदेन अनुयोगचतुष्टयं व्याख्यायते । अरहंताणं अर्ह दाज्ञां न मोचय । मोचा - शाल्मली मोचां करोति मोचयति । मध्यमपुरुषैकवचने मोचयेति २५ सिद्धम् । शाल्मलितुल्यामसारां जिनाज्ञां मा कुरु । तत्त्वरूपां तां जानीहि । इति चरणकरणानुयोगः ॥ ६२ ॥
( नमः अर्हन्नकं त्राणम्) 'अरहं' अर्हन्नकं - साधुं त्राणं- शरणभूतं नमस्कुरु । पदैकदेशे पदसमुदायोपचारात् अरहं अर्हन्नकम् । इति धर्मकथानुयोगः ॥ ६३ ॥
१] अनेन विप्रहेण 'नमो' इति पदस्य कर्मविशेषणत्वे संशीतिः, नपुंसकत्वे ह्रस्वेन भाव्यम् । २ 'तरस्वरूप' इति ख- पाठः । ३ 'मईकः' इति क-पाठः ।
Jain Education International
१५
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180