Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
९४
पण्डितश्रीगुणविनयगणिगुम्फितः ___ सन्तो मोक्षे गत्वराः 'षट् गतौ' (सिद्ध० धा०) विप् , विशिष्टा ई:-कान्तिः भावक्किबन्तः तस्यैवार्थो येषां ते व्यर्थाः, पश्चाद् विशेषणद्वयकर्मधारयः सद्व्यर्थाः ॥ ४८ ॥
सर्वेषां दुःखानां असनं-तिरस्करणं सर्वास् 'असूय क्षेपे' ( ) भावकिबन्तः तत्र तिष्ठति सर्वासस्थाः 'सुपि स्थः' (पाणिनीये ३-२-४) इति कः ॥ ४९ ॥ ५ सति विद्यमानस्य लोकालोकाकाशस्य केवलज्ञानेन वसनं 'वंस् आच्छादने, 'वसल स्तृतौ' ( ) भावक्किबन्तः, तां तन्वन्तीति सद्वस्ताः, 'तनु(यी) विस्तारे' (सिद्ध० धा० ) 'अन्यतोऽपि च' ( कातन्त्रे सू० ६३६) इति डः ॥ ५० ॥
सति निरुपद्रवे स्थाने वसन् वस्-निवसनं तया तंसयन्ति-भूषयन्ति स्वात्मानमिति सवस्ताः “तसिक्यलङ्कृतौ” (
) डप्रत्ययः ॥ ५१ ॥ १. सत्सु-सप्तसु क्षेत्रेषु वपति धर्मबीजमिति सद्वाः डप्रत्ययः, स्तूयन्ते लोकैरिति स्ताः 'ष्टुञ्
स्तुतौ' (सिद्ध० धा) डप्रत्ययः पश्चाद् विशेषणकर्मधारयः ॥५२॥ __ सत् कर्मणां विशरणं 'षद विशरणे' विप् तया वन्द्यन्ते-स्तूयन्त इति सद्धाः 'वदिङ् अभिवादनस्तुत्योः' ( ) डप्रत्ययः। अश्नन्ति-भक्षयन्ति देहमिति अशो-रोगाः क्विप् ताः त्रासयन्ति-निवारयन्ति इति 'त्रसक् निवारणे' ( ) पश्चात् कर्म१५ धारयः सद्-वस्त्राः 'अन्यतोऽपि च' (कातन्त्रे सू० ६३६) इति डः॥ ५३॥
सद्भिः उश्यन्ते-वाश्यन्त इति सद्वशः विप्, ताम्यन्ति-खिद्यन्ते संयमार्थमिति ता डप्रत्ययः पश्चात् कर्मधारये सद्वशताः ॥ ५४॥ __ सतः-व्याख्यानार्हपदार्थान् वदन्तीति सद्वाः, स्त्यायन्ति-सङ्घातयन्ति गुणानिति
स्ताः डप्रत्ययः पश्चाद् विशेषणद्वयकर्मधारयः॥ ५५ ॥ २. सन्-रुचिरो यो वाट्-शब्दनं 'वाश् शब्दे' ( ) भावक्किबन्तः तेन स्तूयन्त इति सद्वाशताः ॥५६॥
सतां-श्रवणार्हाणां भव्यानां पुरोवचनं वः डप्रत्ययः, तेन अर्थ्यन्ते ये ते सद्वार्थ्याः॥५७॥ सन्-रम्यो {यो} वो-महेशः तद्वद् अर्थ्यन्ते ये ते सद्वार्थ्याः॥ ५८ ॥
सन् यो वो-वातः तद्वद् अप्रतिबद्धत्वं अर्थ्यते यैस्ते सद्वार्थ्याः ॥ ५९॥ २५ - श्रव्याः-प्राप्याः विषयतया अर्था येषां ते श्रव्यार्थाः 'श्रु गतो' ( ), 'ये गत्यर्थास्ते प्राप्त्यर्धाः' इति वचनात् ॥ ६०॥
7:-गुर्थः तद्वद् विशिष्टा या ई. कान्तिः सा अर्थ्यते यैस्ते सव्याः ॥ ६१ ॥ से-परोक्षे अतीन्द्रियतया विविधा ये अर्थास्ते सव्यर्थाः, ते अर्हद्भिःप्रणीता इति ॥६२॥ 1 'वस भाच्छादनम्' इति क-पाठः। २ 'लौकिकै.' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180