Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
सव्वत्थशब्दार्थसमुच्चयः
याव्यर्थ्याः- श्रीजिनाः, 'सर्वत्र ०१ (सिद्ध०८-२-७९) रलुक्, 'अधो म-न-यां' (सिद्ध०८२-७८) यलुक् ॥ १०२ ।।
शीः- सिद्धि शिलाशय्यायां शयनं अप्रच्युतित्वेनावस्थानमित्यर्थः तां अवन्ति- इच्छन्ति इत्येवंशीलाः श्याविनः, 'अव इच्छायाम्' (सिद्ध० धा० ) ते च ते अर्ध्याश्चेति श्याव्यर्थ्याः ॥ १०३ ॥
शीः- कर्मरिपूणां हिंसनं तां अवन्ति-जानन्तीत्येवंशीलाः श्याविनः 'अव गतौ' (सिद्ध० धा०) । आ-ब्रह्मा तद्वत् सम्यग्ज्ञानादित्रयविधातृत्वेन स्तूयन्त इति 'क्वचित् ० ' ( सिद्ध० ५ - १ - १७१ ) इति डे आस्ताः पश्चात् कर्मधारये श्याव्यास्ताः ॥ १०४ ॥
त्सरुः-खड्गमुष्टिः सा अर्थ्यते यैस्ते त्सर्व्यर्थ्याः शूराः, तैः किल वैरिमण्डलमण्डलाग्रमुष्टीरुत्सार्य तस्यैव तैः कृत्वा प्रतिघातः क्रियत इति ॥ १०५ ॥
स्वः- स्वर्गस्तस्य प्रात्यर्थं विशिष्टोऽर्थो येषां ते स्वर्व्यर्थाः - सरागसाधवः ॥ १०६ ॥ स्वर्वतां - शोभनहयानामर्थो येषां ते स्वर्थाः सन्नृपाः “यस्याश्वास्तस्य मेदिनी” ( इति वचनात् ॥ १०७ ॥
)
स्वरो:- अध्वरस्य विधाने अर्थो येषां ते स्वर्वर्थाः - याज्ञिकाः ॥ ११२ ॥ स्वरु (वद् ) - वज्रवदक्षोभ्या अर्था येषु ते स्वर्वर्थाः - श्री जिनागमाः ॥ ११३ ॥
९७
स्वः- :- स्वर्गः उपलक्षणत्वात् समस्तोऽपि परलोकः स व्यस्तो यैस्ते स्वर्ग्यस्ताः - लोकाय - तिकाः ॥ १०८ ॥
१५
शरुः - कोपः सोऽस्तो यैस्ते शर्वस्ताः - क्षीणकषायाः साधवः ॥ १०९ ॥
शरोः - वज्रस्य धरणे अर्थो येषां ते शर्वर्थाः पुरन्दराः ॥ ११० ॥
शरूणां शराणामभिवैरिप्रक्षेपणे आस्था-यत्नो येषां ते शर्वास्थाः - वीराः “शरुः कोपे शरे वज्रे" ( है मे का० २, श्लो० ४५० ) इत्यनेकार्थोक्तेः ॥ १११ ॥
५
Jain Education International
१०
For Private & Personal Use Only
स्वरुवद्-वाणवत् प्रतिवादिप्रत्यर्थिप्रतिघातकत्वेन विजयिनः कलियुगेऽर्थो येषां ते स्वर्वर्थाः - नवाङ्गीवृत्तिकारिणः श्रीअभयदेवसूरयः "स्वरुः स्याद् यूपखण्डके । अध्वरे कुलिशे बाणे" ( है मे का० २, श्लो० ४५४-४५५ ) इत्यनेकार्थोकेः ॥ ११४ ॥
शावाः- बालाः शावेत्युपलक्षणं तेन तरुणप्रवयसामपि ग्रहणं ते विद्यन्ते यस्मिन् गच्छे २५ सशावी - श्रीमद्बृहत्खरतरगच्छः तस्य पालने आस्था-यत्लो येषां ते शाव्यास्था: - श्रीजिनचन्द्रसूरयः, 'ह्रस्वः संयोगे' ( सिद्ध० ८ - १ - ८४ ) इति ह्रस्वः ॥ ११५ ॥
२.
सेत्यनेन वीत्यनेन च स्वगुरु-कविनाम सूचितं तत्र सेत्यनेन तुलादण्डमध्यग्रहणन्यायेन उभयपार्श्वस्थयोर्जयो {र्मयो} ग्रहणं, तथा (च) 'जय सोमा' इत्यागतम् । तेषां शिष्येण वीत्यनेन च तन्यायेनैव गुण- नययोर्ग्रहणम् । तथा च 'गुणविनय' इति सिद्धम् । तेन ३० गुणविनयेन प्ररूपिता ये अर्था ( -हेतव ) स्ते सन्यर्थाः तत्त्वोद्बोधका भवन्ति ॥ ११६ ॥
अर्थ. १३
www.jainelibrary.org
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180