Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 121
________________ १०० औरतशेखरसूरिसन्हब्धम् द्यूतकारो:-परपाताः, पाशकपातनादि ७ । गणिका:-परव्याजाः, व्याज:-कपटम् ८ । वरगायनाः-प्रारवायाः प्रकृष्ट आरवस्य आयः-विस्तारो येषाम् ९ । विप्राः-परव्यादाः परं-श्रेष्ठं विशेषेण अदन्तीति 'कर्मणोऽण्' (सिद्ध०५-१-७२) १०। धनिवरकुविन्दावासाः-परावायाः, आवायः-कुविन्दशाला ११ । सुभिक्षे कणाः-परवाताः प्रकृष्टसमूहाः १२। ग्रीष्मजलधितटा:-परवाताः, वातः-वायुः १३ । धूर्ताः-परव्याचाः, 'व्यचत् व्याजीकरणे' (सिद्ध० धा०) व्यचनं व्याचः-वचनम् १४ । दुनेयसत्त्वाः -परापायाः, अपाय:-अनर्थः १५ । धार्मिकचित्ता धर्मे-परबादाः, 'वद स्थैर्ये' (सिद्ध० धा०) प्रकृष्टस्थैर्याः १६ । वेदविदः-परवाकाः वाक्-ऋग्-यजुःसमूहात्मकं वाक्यम् १७ । दयालुः-परपाता, परान् पातीति शीलार्थे तृन् १८ । अशुभवेला परपाता, पातः क्रान्तिसाम्यादिः १९ । पटः-परव्याता, 'व्यंग् संवरणे' (सिद्ध० धा०) परं व्ययति-आच्छादयतीति तृन् २०। १५ महासुभटः-परपायाः, पररक्षकशस्त्रः २१।। असती-परव्यागाः, प्रकृष्टविरुद्धापराधाः २२ । सुतन्तुवायः-परवाता, 'वेंग् तन्तुसन्ताने' (सिद्ध० धा०) प्रकृष्टं वयतीति तृन् २३ । महावाता-(परवाता ?), 'वांक् गतौ (गतिगन्धयोः?)' (सिद्ध० धा०) तृन् २४ । प्रांवृषि यवासः-परपाता, 'मैं (ओ) शोषणे' (सिद्ध० धा०) तृन् ,२५ । मद्यव्यसनी-परपाता, प्रकृष्टं पिवतीति तृन् २६ । अन्त्याधिस्थितिः-परव्यापा, प्रकृष्टविस्तारा २७ । मत्स्यसङ्कुलतडागाः-परवाकाः, वकसमूहो बाकम् २८ । अनुकूलपवनाः पोताः-परव्यायाः, 'व्ययी गती' (सिद्ध० धा०) प्रकृष्टगमनाः २९ । अजापालगृहाः-प्ररपाजाः, प्ररपन्तीत्यचि प्ररपा:-अजा यत्र ३० । २५ अब्धिमुखाः-पराबायाः, प्रकृष्टः अपामायः-लाभो यत्र ३१ । परप्रार्थनापरमनसः-परव्यजाः, परेषु विशेषेण आजो-गतिर्येषाम् ३२ । नित्यदरिद्रा:-परापायाः, परं-दूरमपगतमयो-भाग्यं येभ्यः ३३ । महाऽब्धयः-परापायाः, परा भृशार्थे परापां-भृशापाम् आयो येषु ३४ । हालिका:-परवापाः प्रकृष्टोप्तयः ३५ । वधकाः-परपापाः ३६ । कुम्भकारा:-परापाकाः, आपाकः-मृद्भाण्डपाकस्थानम् ३७ । गिरिनदी-परवापू (१) (टुक्षु) रु(कुं)क् शन्दे' (सिद्ध धा०) अचि प्ररवा आपो यत्र ३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180