Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 125
________________ १०४ पण्डितगुणरत्नमुनिवरकृताः प्रश्रवणस्य लिहः - पानकारी । 'लिहींकू आस्वादने' (सिद्ध० धा०) तस्यैवंविधकष्टकर्तुरपि त्राणं शरणं न स्यात् । ज्ञानं विनेत्युपस्कारः । " सोपस्कराणि सूत्राणि भवन्ति” इति न्यायः ॥ ८ ॥ (न मौकलि-हा - SSनम् ) मौकलिः - 5:- वायसः । 'स्वराणां स्वराः' (सिद्ध० ८-४-२३८) ५ इत्यकारः । तस्य हन्ता - घातकः, तस्य आनं जीवनं न स्यात् । लोके हि एवं रूढिः - वायसस्य भक्षकश्विरजीवी स्यात् । तत्रायं अर्थो न समर्थः । तस्य हननेऽपि अधिकं जीवनं नैवेत्यर्थः ॥ ९ ॥ (न- मोदाssरि भन्राणम्) 'हंताणं' भानि - नक्षत्राणि तेषां त्राणं- रक्षणं यस्य, सर्वनक्षत्रत्राता, चन्द्रः इत्यर्थः । 'पश्यत' इति क्रियाऽध्याहारः । चन्द्रं किम्भूतम् ? 'नमोदारि' १० नो-बुद्धिः मोदो - हर्षः आरः- प्रापणम्, आरो विद्यते यस्य स आरी, बुद्धिमोदयोः आरी । शुभे चन्द्रे हि शुभा बुद्धिः हर्षश्च प्राप्यते । 'आरि' इत्यत्रानुस्वाराभावो न दोषाय, चित्रत्वात् । 'ख-ध-थं-ध-भां हः ' ( सिद्ध० ८-१-१८७ ) इत्यादौ भकारस्य हकारः क्वचित् आदावपि भवतीति वचनात्, बाहुलकाच्च ॥ १० ॥ (न-मोदाsहं त्राणं) त्राणं - सत्पुरुषशरणं वर्तते । किम्भूतम् । 'नमोदार्ह' नो- ज्ञानं १५ मोदो - हर्षः तयोः अर्ह योग्यम् ॥ ११ ॥ (नृ-मोदर्ह तानम्) तानं - वस्त्रम् । लोके हि तानकयोगाद् वस्त्रनिष्पत्तिः । कारणे कार्योपचारात् तानं - वस्त्रम् । किम्भूतम् ? 'नमो अरिहं' नृणां - मनुष्याणां मा-शोभा, तस्या उदहं भृशं योग्यम्, मनुजशोभाकारि इत्यर्थः ॥ १२ ॥ ( नमोदरी हन्त आ-नम् ) ' हन्त' इति खेदे । नमं-नमत् कृशम् उदरं यस्याः सा नमो२० दरी - कृशोदरी, स्त्री इत्यर्थः । सा 'आनं' आ-समन्तात् नं- बन्धनम् । स्त्रियः सर्वत्र बन्धनरूपा इति ॥ १३ ॥ (नम अर्हदाज्ञाम्) 'अरिहंताणं' अर्हदाज्ञां प्रति नम - प्रह्वीभवेति शिष्यस्य कथनम् ॥ १४ ॥ ( न मोपरि हन्ता) मः- शिवः । 'शिव' शब्देन मोक्षो ज्ञेयः । तस्य उपरि हन्ता - गन्ता २५ न वर्तते कश्चित् जीवः, मुक्तेरुपरि अलोकसद्भावेन कस्यापि गमनाभावात् । ' हन्ता' इत्यत्र 'हनंकू हिंसा - गत्योः' (सिद्ध० धा० ) इति गत्यर्थः ॥ १५ ॥ ( न म उअ इह अ-तानम् ) इह-जगति अं- परब्रह्म तस्य तानं - विस्तारं त्वं 'अ पश्य' (सिद्ध० ८ - २ - २११ ) । सर्वस्मिन् जगति ब्रह्मैवास्तीति वेदान्तिमतम् । न मः - १ 'भक्तिक' इति क-पाठः । २ 'बाहुलकाद् चा' इति ख- पाठः । ३ ' गमनं नास्ति' इति ख- पाठः । ४ उभ पश्येत्यस्यार्थे श्री हेमचन्द्रसूरिभिः प्राकृतव्याकरणस्य स्वोपज्ञवृत्तौ निर्दिष्टा गाथा तच्छाया च यथा"उभ निश्चल निष्कंदा भिसिणीपत्तम्मि हइ बलाभा । निम्मक- मरगय- भाषण-परिद्विआ सङ्घ- सुत्ति व्व ॥" पश्य निश्चळ निःस्पन्दा बिसिनीपात्रे राजति बलाका । निर्मलमरकत भाजनपरिस्थिता शङ्खशुक्तिरिव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180