Book Title: Anekarth Ratna Manjushayam Author(s): Hiralal R Kapadia Publisher: Devchand Lalbhai Pustakoddhar FundPage 94
________________ गायत्रीविवरणम् ७३ इत्यादि । शिष्यं प्रति शिक्षामाह-हे नः!-नर! नृशब्दस्थामन्त्रणे रूपम् । सबहुमानं ह्यामन्त्रितः शिष्यः प्रस्तुतार्थश्रवणे उत्साहितो भवति, अतो विशेषणमाह-'धियोऽयो !' इति। 'युक् मिश्र[व]णे' (सिद्ध० धा०) इत्ययं परैरमिश्र[वणे चेत्यधीयते, अतो यौति-पृथग्भवतीति युः। विचि छान्दसत्वाद् गुणाभावः। न युरयुः तस्यामन्त्रणं हे अयो!-अपृथग्भूत! कस्याः? 'धियः' वुद्धितः । यतः त्वं बुद्धेरपृथग्भूतो बुद्धिमान्-प्रेक्षापूर्वकारी, अतस्त्वं ५ शिष्यसे । तदन्यत्र हि रक्त-द्विष्ट-मूढ-पूर्वव्युद्राहितादावुपदेशानहत्वात् अन्धकारनृत्तानुकारी प्रयास इति । पुनर्युत्पाद्यस्यैव विशेषणान्तरमाह-'प्रच!' इति । प्रकृष्टं चरतीति प्रचः-प्रकृष्टाचारो मार्गानुसारिप्रवृत्तिरितियावत् 'क्वचिद्' (सिद्ध० ५-१-१७१) इति डे रूपम् । यथा वा प्रचः-हंस इति, प्रकृष्टाचारे झुपदेशसाफल्यं, आचारपराङ्मुखाणां शास्त्रसद्भावप्रतिपादने प्रत्युत प्रत्यवायसम्भवात् । किम् ? 'उदयात्' उदयं प्राप्तम् । अनन्य- १० सामान्यगुणातिशयसम्पदा प्रतिष्ठितमाराध्यत्वेन परमेष्ठिपञ्चकं कर्तृभूतमिति । अयमिह तात्पर्यार्थः-ईश्वर-ब्रह्म-विष्णुषु उपलक्षणत्वादन्येष्वपि कपिल-सुगतादिषु दैवतेषु मध्ये भो पुरुष! ज्ञानवन् ! प्रकृष्टाचार! परमेष्ठिपञ्चकमेव पूर्वदर्शितदिङमात्रगुणातिशययोगादाराध्यतया प्रतिष्ठितम् , अतस्तदेवाराधनीयं, तदेव चोपासनीयं, तदेव शरणतया प्रति. पत्तव्यं, तदाज्ञामृतरस एवास्वादनीयः, तद्व्यतिरिकाराध्यान्तरस्यासद्भावात् । भावेऽपि १५ (च) वस्तुतस्तत्त्वानुपपत्तेः, तदोषाणां लेशत इहैव निर्णीतत्वात् , तद्व्यवच्छेदेन चाराध्यतायामतिप्रसङ्गः । उक्तं च “कामानुपक्तस्य रिपुप्रहारिणः, प्रपश्चिनोऽनुग्रहशापकारिणः। __ सामान्यपुंवर्गसमानधर्मिणो, महत्त्वकृप्तौ सकलस्य तद् भवेत् ॥" इति । इह चाधीमहि वसीति विशेषणेन तेषां रागसूचनं, सोहचर्याद् द्वेष-मोहावप्यवसेयौ, २० तेषामायुधादिसद्भावात् पूर्वापरव्याहतार्थागमाद्यभिधानाच्च, यदुक्तम् "रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यः ॥" इत्यादि । आचार्यादीनां न सर्वथा रागादिक्षय इति चेत् ? न, तेषामप्याप्तोपदेशेन रागादिक्षयार्थ प्रवृत्तेस्तथाविधरागाद्यसद्भावात् तदत्यन्तक्षयस्य च भावित्वात् भाविनि भूतवदु-२५ पचारात् वीतरागितैवेति, भावाचार्यादिभिरेवानाधिकार इति सर्व समञ्जसम् । इत्यार्हताभिप्रायेण मन्त्र व्याख्या ॥ 'विशेष्यसे' इति ख-पाठः। २ 'पुनः शिष्यस्यैव' इति ख-पाठः। ३ श्रेण गुणा' इति ख-पाठः। ४ 'तथाहि-कामा०' इति ख-पाठः। ५ "विशेषणे द्वेषस्योपलक्षणं भायुधादिसद्भावेन द्वेषस्यापि तेषां सद्भावात् । इति जनमताभिप्रायेण व्याख्या ॥॥' इति स-पाठः। तर्करहस्यदीपिकाऽनुसारेण (पृ. १५) भवशि चरणं वेवम्-"मो पल्प देवः स स चैवमहम्"। . अर्थ. १. Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180