Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 100
________________ गायत्रीविवरणम् ७९ किं स्वच्छन्देनास्मन्मतयः पावकतर्पणादौ प्रवर्तन्ताम् ? नेत्याह-प्रचोदयादिति चोदनं चोदया, चोदनेत्यर्थः । 'णिवेच्यासश्रन्थघट्टवन्देरन:' ( सिद्ध० ५ -३ - १११ ) इत्यनेन अनप्राप्तावपि शलिप्रत्ययादिति बाहुलकादः, णेर्लुक्प्रसङ्ग इति चेन्न । णिलुकोऽनित्यत्वात् । तथा च धातुपारायणं-भीप्यादिभ्योऽनापवादे (?) अप्रत्ययेऽपि णेलुकि भीषादीनां सिद्धवद् विधानाण्णिलुकोऽनित्यत्वज्ञापनार्थ, तेन “चिन्तया सुप्रकम्पया ” इत्यादि सिद्धम् । इति । ५ चोदना च क्रियां प्रति प्रवर्तकं वचनं यथा - " अग्निहोत्रं जुहुयात् स्वर्गकामः " ( तैत्तिरीयसंहितायाम् ) इति । व्याचकार च षड्दर्शनसमुच्चयकारः“चो (नो ? ) दनालक्षणो धर्म-चोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वः कामोऽग्निं यथा यजेत् ॥” इति ( षड्दर्शनसमुचये अ० ६, श्लो० ४ ) । प्रकर्षेण चोदयः प्रचोदयोऽस्मिन्नस्तीति । १. 'अत्रादिभ्यः' (सिद्ध०७-२-४६ ) इति बहुवचनस्याकृतिगणज्ञापनार्थत्वात् अप्रत्यये प्रचोदयो- 'वेदस्तस्मात्, वेदोपदेशमाश्रित्येत्यर्थः । 'गम्ययपः कर्माधारे' (सिद्ध० २ - २ - ७४ ) इति पञ्चमी । किंविशिष्टाद् वेदात् ? 'सवितुः व' वशब्दस्य " कादम्वखण्डदलितानि व पङ्कजानि ” इत्यादिषूपमानार्थस्य रूढत्वादादित्यादिवत्, समस्तार्थसार्थप्रकाशकतया भास्करतुल्यादित्यर्थः । तस्माद् वेदादस्मन्मतयः अन्याराधनादौ प्रवर्तन्ताम् । अत्र १५ यत्तदोर्नित्याभिसम्बन्धाद् यतो विद्यते, किं तत् ? 'ॐ' ओमित्यक्षरं, छन्दसामादिभूतत्वात् तस्य । किंविशिष्टम् ? ‘भूर्भुवः स्वस्तत्' भुवनत्रयव्यापि । न हि किञ्चिदभिधेयसमाविष्टं त्रस्तु गुरुसम्प्रदाययुक्त्याऽन्विष्यमाणं अत्रान्तरे शब्दपर्यायैर्नावाप्यते, सर्वैरपि प्रवादिभिरविगा - नेनास्य सकलभुवनत्रयकमलाधिगमबीजत योपवर्णितत्वादिति परिभावनीयमेतत् । अत एव चास्यासाधारणं विशेषमाह - आण्यमिति । आण्यते-उच्चार्यते स्मर्यत इति आण्यं - प्रणि- २० धेयम् । कस्येत्याह- 'वस्य' उः - ब्रह्मा, उः - शङ्करश्च, अः - कृष्णः । सन्धिवशात् वं- पुरुषत्रयं तस्यापि ध्येयमिति भावः । वस्येति कर्तरि षष्ठी 'कृत्यस्य वा' (सिद्ध० २-२ -८८ ) इति लक्षणात् । यद्वा वेदात् । किंविशिष्टात् ? सवितुः - उत्पादयितुः प्रतिपादयितुरितियावत् । किं तदिति व्याप्यमाह - ओमित्यादि । शेषं पूर्ववत् । नवरं वशब्दो वाक्यालङ्कारे ज्ञेयः । रे आण्यमित्याकारलोपः प्राक्तनवाचोयुक्तेरेवावसेयः । तदयं समुदायार्थ:- यस्मिन् वेदे २५ आदावखिलजगत्रयव्यापी देवत्रयेणापि प्रणिधेयः प्रणव उद्गीयते यश्च समस्तार्थप्रकाशनैकभास्करस्तस्य वेदस्योपदेशमाश्रित्य कामसम्पत्कारणे विद्वज्जनाभ्यर्चनीये चान्याराधने आस्माकीना वुद्धयः प्रवर्तनशीलाः सन्तु । इति भट्टदर्शनाभिप्रायेण व्याख्या ॥ ७ ॥ १ 'देवस्तस्मात् देवापदेश:' इति ख- पाठः । २ 'वेति उपमार्थं सवितुः सर्वार्थप्रकाशकत्वेन सूर्यसमानात् तस्माद्' इति ख- पाठः । ३ 'लोकत्रयव्यापि । तर्हि किञ्चि०' इति ख- पाठः । ४ 'मत्रो कारशब्दस्य पर्यायो नैवाप्यते सर्वैरपि प्रवादिभिरप्यविगाने नास्य०' इति ख- पाठः । ५ 'वान्तरमाह' इति स्व-पाठः ६ 'पुरुषोत्तमः ' इति ख- पाठः । ७ 'वः तस्य वस्य तेनापि ध्येयमित्यर्थः रे भाण्यमित्या' इति ख- पाठः । ८ 'प्रवर्तन्तामिति भट्टदर्शनेन मनग्याख्या' इति ख- पाठः । Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180