Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 98
________________ गायत्रीविवरणम् सिद्धं योनःप्रचोदेति । न चैवंप्रकाराः प्रयोगान लभ्यन्त इति वाच्यम् । “बन्धुप्रियां वन्धुजनोऽऽजुहाव" इति (कुमार० स० १, श्लो० २६) महाकवि(कालिदास)प्रयोगदर्शनात् ।। अथवा स्वस्तदिति विशेषणमेव, प्रचोदेति पुनः क्रियापदम् । अन इति कर्मपदं, अन्तरा. त्मसारथिना प्रवर्तनीयत्वात् अन इवानः-शरीरं तत् प्रचोद । 'चुदण् सञ्चोदने' (सिद्ध धा०) इत्यस्य चुरादेर्णिचो अनित्यत्वात् तदभावे हौ रूपं, सञ्चोदनं च नोदनमिति, धातु- ५ पारायणकृता तथैव व्याख्यानात् , ततश्च प्रचोद-प्रकर्षेण नुद-स्फेटय । नह्यमुग्धकायक' लिमनुत्सृज्य क्वचिदपि परमसुखलाभः । उक्तं हि वेदे-“अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः। न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति"। इति वैष्णवाभिप्रायः ॥५॥ (ॐ भूर्भुवः खस्तत्! सवितुर्वरेण्यं भर् गोदेवस्य धीम! हि धियोयो नः प्रचोदयाऽत्) ___ यदि वा सौगताः स्वं देवं-वुद्धं भट्टारकं प्रणिदधाना एवमाहुः-ॐ भूर्भुवःस्वरि.१० त्यादि । ओमिति प्राग्वत् । हे भूः!-आधार ! भुवो-भव्यलोकस्य स्वः-परलोकं तनोतिविस्तारयति प्रज्ञापयतीतियावत् स्वस्तत् । आत्मनाऽस्तित्वेऽपि परलोकाभ्युपगमात् "आत्मा नास्ति पुनर्भवोऽस्ति" इति वचनात् । “आत्मानास्तित्वं च-पञ्चेमानि भिक्षवः! सेंज्ञामात्रं प्रतिज्ञामात्रं संवृतिमात्रं व्यवहारमात्रम् । कतमानि पञ्च ?, अतीताद्धा अनागताद्धा प्रतिसंख्यानिरोधः आकाशं पुद्गलाः" इति वुद्धोक्तिप्रामाण्यात् , अत्र पुद्गल इत्यात्मा, १५ सवितुः-तैपनस्य वरेण्य !-प्रधान !, रविवान्धवत्वात् सप्तमस्य बुद्धस्य शाक्यसिंहाभिधानस्य । भर् गोदेवस्येति । विभीति भर्-पोषकः । कस्येत्याह-'गोदेवस्य' गोभिर्भूता. र्थगर्भाभिर्वाग्भिः दीव्यति-स्तौतीति गोदेवस्तस्य । यदि नामासंवेदयताऽपि डिम्भेन भग. वते वुद्धाय कल्पितः पांशुमुष्टी राज्यं फलितस्तदा किं नामाश्चर्य भावसारस्तुतिपराणां मनीपितसिद्धिविधाने । तथा हे 'धीम!' धियं-ज्ञानमेव मिमीते-शब्दयति प्ररूपयतीति २० धीमः । बहिराकाराणामविद्यादर्शितत्वादवस्तुत्वेन ज्ञानाद्वैतस्य तन्मते प्रमाणत्वात् । उक्तं . च मुनीन्द्रपादोपजीविभिः "ग्राह्यग्राहकनिर्मुक्तं, विज्ञानं परमार्थसत् । नान्योऽनुभाव्यो बुद्ध्याऽस्ति, तस्या नानुभवोऽपरः ।। ग्राह्यग्राहकवैधुर्यात् , स्वयं सैव प्रकाश्यते । वाह्यो न विद्यते ह्यर्थो, यथा वालैर्विकल्प्यते ।। वासनालुठितं चित्त-मर्थाभासे प्रवर्तते ।" . प्रेक्ष्यतां चतुर्दशं पृष्ठम् । २ छान्दोग्योपनिषदि (भ० ८, ख० १२) प्रारम्भे उल्लेखोऽयम्, परन्तु तत्र एतद्वाक्यद्वयस्य पूर्वापरीभावः । ३ 'अथ' इति ख-पाठः। ४ 'भास्मनस्तु पुनर्भावो.' इति ख-पाठचिन्तनीयः। ५ 'तन्मानं' इति ख-पाठः। ६ 'धश्चाकाशं' इति ख-पाठः। श्वेर्वरेण्य !' इति ग-पाठः । . साक्षिरूपेण उदाहृतं पथयमकमिदं श्रीगुणाकारसूरिभिः षड्दर्शनसमुच्चयटीकायां तर्करहस्यदीपिकाभिधायाम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180