Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 23
________________ अर्थरनावली [अर्थस्तृतीयः] ददते, प्राणिनामिति शेषः, सर्वदैव सर्वेषां सौख्यदानात् । किंविशिष्ट आ ? 'राजा' राजते-दीप्यते विश्वव्यापिप्रभाभिरिति राजा । इदमपि श्रीसूर्यसेवकानामेव वचनम् ॥२॥ अथ पुनः प्रकारान्तरेण श्रीब्रह्मविष्णुशिवदेवानाश्रित्यार्थमाह रा-अज-अ-अ नः अददत ईसौख्यम् ॥ ३॥ ५ "रा रमा रमणी वाला” इति विश्वशम्भुवचनात् रा तत्पर्यायत्वात् श्रीः। तथा अजः-ब्रह्मा । “अः कृष्ण" इति श्रीअमरवचनात् अः-श्रीकृष्णः । तथा “अः शिवे केशवे वायौ, ब्रह्मचन्द्राग्निभानुषु" इति विश्वशम्भुवचनप्रामाण्यात् अः-शिवः । ततः अजश्च अश्च अश्च अजाः । (रया-) श्रिया उपलक्षिता अजाः (राजा:-) श्रीअजाःश्रीब्रह्मविष्णुशिवाख्यास्त्रयोऽपि देवाः नः-अस्माकं, “ईः श्रीः" इति श्रीअमरकविव१० चनप्रामाण्यात् ई:-श्रीः तस्याः तत्सम्बन्धि वा सौख्यं-सुखं ईसौख्यं ऋद्धिसौख्य मिति __यावत् अददत-अदुरित्यर्थः । इदं तत्तत्सेवकानां वचनम् । ___ अत्र राशब्दो व्यवधानेन श्रीप्रतीतिकृदपि श्लेपचित्रादित्वात् न दोषभाक् । यथा- "येन ध्वस्तमनोभवेन वलिजित्कायः पुराऽस्त्रीकृतो यश्चोद्वत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः॥१॥"-शार्दूलविक्रीडितम् इत्यादि । एवमग्रेऽपि सति प्रयोजनेऽनुसतव्यम् ॥ ३॥ .. 'यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः' इति पाठः सुभाषितरत्नभाण्डागारे। २ 'सोऽच्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः' इत्यपि पाठः सुभाषितरत्नभाण्डागारे। ३ इदं कूटकाव्यं तस्मादस्य टिप्पणकं दीयते, हरपक्षे यथा-स उमाधवः-पार्वतीपतिः त्वां सर्वदा-सदा पापात्रक्षतु । स किंभूतः? यो गङ्गामधारयत् येन बलि जितवानिति बलिजित्-विष्णुः तस्य काय:-शरीरं पुरा-त्रिपुरवधकाले अस्त्रीकृतः-अनत्वेन सम्पादितः। किंभूतेन येन? 'ध्वस्तमनोभवेन' वस्त:-क्षपितः मनोभवः-रतिपतिर्येन स तेन । पुनः किंभूतः सः । 'यश्चोत्त०' हाराश्च वलयानि च हारवलयम्, उदृत्ताच ते भुजङ्गाश्च उत्तभुजङ्गाः, ते हारवलयं यस्य सः, उद्वृत्तभुजङ्गाः-सर्पाः हारः-कण्ठाभरणं वलय-कटकं भुजभूषणमित्यर्थः । पुनः स किंभूतः? यस्य शिरः-मस्तकं 'शशिमत्' शशी-चन्द्रोऽस्ति यस्मिन् तत् शशिमत् । पुनः स किंभूतः यस्य स्तुत्यं-प्रशंसनीय नाम-अभिधानं अमरा-देवा इति आहुः-अकथयन् । इतीति किम् ? हर इति-महादेव इति । पुनः स किंभूतः? स्वयं-भारमना अन्धकनामा देत्यः तस्य क्षयकरः-अन्तकृत् । हरिपक्षे यथा येन ध्वस्तमनो भवेन बलिजिस्कायः पुरा स्वीकृतो यशोवृत्तभुजङ्गहा रवलयोऽगं गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ॥ १॥ सर्व-समस्तं ददाति-यच्छतीति सर्वदः स माधवः-लक्ष्मीपतिः मा-लक्ष्मीः तस्या धवः-पतिः माधवः स्वा पायात्-अवतु । स कः? येन भवेनेत्युत्पन्नमात्रेण पृतदेहेनेत्यर्थः, अनः-शकटाकृतिर्दानवः ध्वस्तं-अधानि, अथवा अकारमशेष करवा अभवेनेति घोरसंसारसमुद्रे पूर्वकर्मानुसारेण न विद्यते भवो-जन्म यस्य स तेन कृष्णलीलामृत Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180