Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 35
________________ १४ अर्थरत्नावली [अर्थाः ९२-९४] तत्र जातत्वेन गच्छतीति आजानोऽत्-श्रीअजितनाथो द्वितीयो जिनः, रोहिणीनक्षत्रजातत्वात् । ततः हे आजानोत्! ते-तव रा-शोभा, भवत्विति शेषः । हे अद! :-अग्निस्तद्वत् दो-दीप्तिर्यस्य सोऽदः, पीतवर्णत्वात् अजितस्य । हे आसौख्य! आ-सामस्त्येन सौख्यं-सुखं यस्मादसौ आप्तौख्यः, तत्सं० हे आसौख्य! चित्रत्वादनुस्वारलोपो न दोषाय। ५ तथा अत्र ते. आसौख्यम् इत्यत्राकारलोपः। 'एदोतः पदान्तेऽस्य लुग्' (सिद्ध० अ० १, पा० २, सू० २७) इत्यनेन सूत्रेण मतान्तरमाश्रित्य यथा कुमारसम्भवे महाकाव्ये"वन्धुप्रियां वन्धुजनो [आजुहाव तां पार्वतीत्याभिजनोऽऽजुहाव"। महाभारतेऽपि"कुरवोऽऽत्महितं मन्त्रम्" । अन्यत्रापि-"निर्मापितोऽऽमराज्ञा, गोपगिरौ जयति वीरजिनः" । एवमनेकशः स्थलानि विलोकनीयानि । अथवा हे असौख्य! न विद्यते सौख्यं१० सांसारिकसुखं यस्य सः असौख्यस्तत्सं० हे असौख्य ! इति । द्वितीयजिनवर्णनमाश्रित्यार्थ उक्तः । सर्वे ॥ ९१॥ राजा नो ददते सौख्यम् ॥ ९२॥ राजा-चन्द्रस्तेनोपलक्षितः अ-अर्हन् राजा-चन्द्रप्रभजिनोऽष्टमः, चन्द्रलाञ्छनत्वात् । अथवा राजा-चन्द्रस्तेन लाञ्छनभूतेन आ-शोभा यस्य स राजा-चन्द्रमभो १५ न:-अस्माकं सौख्यं ददते ॥८॥ सर्वे ॥९२ ॥ रा-ज-आनः अददत इ सौख्यम् ॥ ९३ ॥ "रा रमा रमणी बाला" इति वचनात् पङ्किरथन्यायेन रा-रामा ततो जं-जन्म यस्य स राजः-श्रीसुविधिः, रामामातृजातत्वात् तस्य आनो-मुखश्वासो राजानः। इ इति सम्बोधने । सौख्यं-मनःसन्तोपं अददत, ददौ इत्यर्थः । इदं बाल्यावस्थायां खेलना२० दिसमये रामामात्रादिजनवचनम् ॥९॥ सर्वे ॥ ९३ ॥ ___रा जानो ! ददते सौख्यम् ॥ ९४ ॥ ___आ-लक्ष्मीस्तत्पर्यायत्वात् या। ततः जपूर्वा आ जाआ, जाया इत्यर्थः। ततो जायानाम्नी वासुपूज्यमातेत्यर्थः । तस्याः "नुः स्तुतौ” इति वचनात् नुः-स्तुतिर्यस्मात् स जानु:-श्रीवासुपूज्यः । उत्तमपुत्राद्धि मातापित्रोः स्तुतिर्लोके भवत्येव । ततस्तत्सं० हे २५ जानो!-हे श्रीवासुपूज्य! भवानिति अध्याहारे । सौख्यं ददते । किं० भवान् ? 'राः' "रं : जले रङ्गवेगयोः" इति (विश्व०)वचनात् रं-रङ्गं अटति-गच्छति-प्रामोतीति राः ॥१२॥ सर्वे ॥ ९४॥ ... निर्णयसागरमुद्रणालये मुद्रिते पुस्तके (स.,लो. २६)तु निम्नलिखितः पाठः "तां पार्वतीत्या भिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।" ३. २ भष्टमतीर्थङ्करसूचकोऽकोऽयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180