Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 85
________________ ६४ अर्थरत्नावली "परब्रह्मार्थिभक्तानां, कीहक् किं ददते प्रभुः ।। राजन्वत्यः प्रजाः प्राहुः, किं पदं वद कोविद ! ॥२॥" राजा नो ददते सौख्यम् ॥ (राजा जानो ! नोद ! ददः ! दते ते असौ सौखी अम्) व्याख्या-विरहिणां जनानां सन्तापकरः को भवेत् ? । उत्तरम्-'राजा' चन्द्रः। अष्ठीवतो-नलकीलस्य संहूतिः का-सम्बोधनं किम् ? । उत्तरम्-हे 'जानो' । तथा प्रेरणं च दानदातृजनश्च प्रेरणदानदातृजनौ तयोः पृथक् पृथक् सम्बोधनं किम् ? उत्तरम्हे 'नोद' हे 'दद !' दं-दानं ददातीति ददस्तत्सं० । दन्त इति ध्वनेः-शब्दस्य चतुर्योदिम-चतुर्थीविभक्तिप्रथमवचनसत्कं रूपं भो पण्डिताः! यूयं वदत-कीहक् स्यात् ? उत्त१० रम् 'दते'। विष्णुप्रिया-लक्ष्मीः पृच्छति-न्यायिनरेश्वरस्य विजयः कस्यात् ? उत्तरम् । 'ते असौ' खड़े। प्रभुः-स्वामी कीदृक् सन् परब्रह्मार्थिभकानां किं ददते ? उत्तरम्'सौखी अं' सुखानां समाहारः सौखं सौखमस्यास्तीति सौखी सन् अं-परब्रह्म ददते । हे कोविद ! त्वं वद राजन्वत्यः प्रजाः किं पदं प्राहुः-प्रवदन्ति ? तदा उत्तरम् । राजेति, राजा-नृपो न:-अस्माकं सौख्यं ददते न्यायित्वात् । राजन्वत्य इति शोभनो राजा यासु १५ ताः राजन्वत्यः, मतौ निपातनात् रूपसिद्धिः । यदाहुः हेमसूरिपादाः-'राजन्वान् सुराज्ञि' (सिद्ध० अ० २, पा० १, सू० ९८) सुराजकेऽर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः । राजन्वत्यः प्रजाः इति । इति अर्थद्वयं सर्वमीलने। अथ पदोत्तरनामप्रश्नोत्तरभेदेन अर्थदर्शनम् कृष्णं का व्रजति प्रमोदवशतः ? का सर्वभक्षा मता? ध्वस्तं किं हरिणा ? कलत्रवधकस्याहूतिरावेद्यताम् । कृष्णः पृच्छति-का च कस्य दयिता ? क प्रेम धत्ते शिवा ? कीहक् ना भजते च कं सुसुखिनो जल्पन्ति किं प्राणिनः॥१॥ "राजा नो ददतेऽसौख्यम् ॥” । (रा अजा अनः दद ! ते अ! सा औ खी अम् ) २५ प्रमोदवशात् का स्त्री कृष्णं प्रति याति ? उत्तरम् 'रा' । “रा रमा रमणी बाला" इति (विश्वशम्भु० श्लो० १०१) वचनात् रमा, लक्ष्मीरित्यर्थः । सर्वभक्षा का मता? उत्तरम् 'अजा' गलस्तनी । हरिणा-नारायणेन किं ध्वस्तम् ? उ० 'अनः' शकटम्, शकटनामा दैत्य इत्यर्थः। कलत्रवधकस्य-स्त्रीखण्डकस्य सम्बोधनं कथ्यताम् । १० हे 'दद' ! "दं कलत्रं" इति (सुधा० श्लो० २५) वचनात् दं-कलत्रं धति-खण्डयतीति १० ददस्तस्सं० हे दद।। कृष्णः पृच्छति-का कस्य दयिता । ७० हे अ!-हे कृष्ण! प्रम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180