Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 46
________________ श्री समयमुन्दरगणिकृता राजा अ ! आ नो ददते असौख्यम् ॥ ३०१-३०३ ॥ आ इति पादपूरणे । हे अ ! - हे कृष्ण ! रां-लक्ष्म जस्यति - धातूनामनेकार्थत्वात् नाशयतीति राजा - आपद् नः - अस्मभ्यं १ अस्माकं २ वा असौख्यं दुःखं ददते । इदं आपदा पीडितानां जनानां कृष्णं प्रति वचनम् ॥ २ ॥ एवं नो-न सौख्यं ददते अर्थयोजना पूर्ववत् ॥ १ ॥ पूर्वमी० ॥ ३ ॥ सर्वे ० ॥ ३०३ ॥ राजा अ ! आ नो ददते सौख्यम् * ॥ ३०४-३०७॥ [ अर्थाः ३०१-४३३ ] रां - रमणी जस्यति - नाशयति- मारयतीति उप्रत्यये आपि च राजा - स्त्रीमारिका काचिदेवंविधा स्त्री । आ इति कोपे । हे अ ! हे कृष्ण ! नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं चे २ ददते । अर्थयोजना स्वयं कार्या ॥ ४ ॥ सर्वे० ॥ ३०७ ॥ र-अजा अ ! अ नो ददते सौख्यम् ॥ ३०८-३११ ॥ अजति - क्षिपतीति अजा । रस्य कामस्य अजा- -क्षेपका राजा - शीलवती स्त्री । हे अ ! - हे कृष्ण ! अ इति आमन्त्रणे । नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ अंसौख्यं वा २ ददते । इदं शीलवल्लभानां तद्विपरीतानां च श्रीकृष्णं प्रति वचनम् ||४|| सर्वे० ३११ राजा अ! आ नो ददते सौख्यम् * ॥ ३१२ - ३७२ ॥ २५ १ 'सौख्यम्' इत्यर्थान्तरे । २ 'वा' इति पाठान्तरम् । अर्थ. ४ Jain Education International आ इति आमन्त्रणे । हे अ ! "अः शिवे केशवे वायौ, ब्रह्म-चन्द्राऽग्नि-सा (भा) नुषु ” १५ इति विश्वशम्भु (श्लो० ५) वचनात् हे ईश्वर ! राजा - चन्द्रः नः - अस्मभ्यं १ अस्माकं २ च सौख्यं ददते । इदं रतसमये स्वप्रियेश्वरेण समं रममाणपार्वतीवचनं चन्द्रोद्योतप्रद्योतिते जगति स्वप्रियं प्रति ॥ २ ॥ एवं हे अ ! - हे ईश्वर ! राजा-चन्द्रो नः - अस्मभ्यं १ अस्माकं व २, आ इति पादपूरणे, असौख्यं - कामपीडां ददते । त्वद्विरहे इति अर्थाद् गम्यम् । इदमपि पार्वतीवचनम् ॥ २ ॥ सर्वे ० ॥ ४ ॥ अत्र 'नः' इति बहुवचनं आत्मनो गौरवख्यापना- २० र्थम् । एवं यथा पञ्चाशदधिकद्विशतार्थेभ्यः २५० पश्चाद् ये एकषष्टिरर्थाः विष्णुवाचकेन अशब्देन समं कृताः, तथा शिववाचकेनापि अशब्देन समं एकषष्टिरर्थाः कार्याः । विशेष्यस्य भिन्नत्वाच्च अर्थभेदः स्फुट एव । मया तु ग्रन्थविस्तर भीत्या लिखनस्य एकपद्धत्या अल्पभेदत्वाच्च न विविच्य लिखिताः । पृथग्भेदान्वेषिभिः विद्वद्भिः स्वयं कार्याः । एवं अर्थयोज - नाऽपि यथासम्भवं स्वयं कार्या सुधीभिः । ततो जाताः ॥ ६१ ॥ पूर्वोक्ताः ॥ ३११ ॥ २५ मीलने च जाताः ॥ ३७२ ॥ राजा अ ! आ नो ददते सौख्यम् ॥३७३-४३३ ॥ अस्य कृष्णस्य अपत्यं इ:- कामः तस्यापि अपत्यं अः - अनिरुद्धः । ततः हे अ ! For Private & Personal Use Only M १० www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180