Book Title: Anekarth Ratna Manjushayam Author(s): Hiralal R Kapadia Publisher: Devchand Lalbhai Pustakoddhar FundPage 70
________________ ४९ श्रीसमयसुन्दरगणिकृता अनोदः-शकटखण्डकः स चासो दः-पालकः अथवा तस्य दः-पालकः, तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः शकटखण्डकपालकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २९४ ॥ ___अनोदः-शकटखण्डकः कोऽप्येवंविधो वलिष्ठः, तद्वद् दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० इत्यादि ७ अर्थाः शकटखण्डकदीप्तिवा० कार्याः । सर्वे० ॥ ३०१॥ अथ पुनः प्रकारान्तरेण अर्थानाह अनः-शकटं अर्थात् शकटरूपं दैत्यं (तं) द्यति-खण्डयति इति अनोदो-नारायणः। एवं अग्रेऽपि नारायणवाचि अनोदशब्दस्य व्युत्पत्तिः कार्या । तं दयते-पालयतीति अनोददः अर्थान्नन्दगोकुली । तेन हि वाल्यावस्थायां हरिः पालितो-निजगृहे रक्षितः पुत्रवदिति श्रुतिः। सम्बन्धस्तु शास्त्रान्तरादवसेयः। तत्सम्बोधनं हे अनोदद ! हे अ!-प्राणिन् ! ते- १० तुभ्यं राजा सौख्यं ददातु इत्यादि ७ अर्थाः नन्दगोकुलिवाचिनाऽनोददपदेन केवलेन कार्याः । अत्र 'अ' इति विशेष्यं(?) पूर्ववद् गण्यम् । ततः तेआदेशस्यावैषम्यम् । सर्वे० ॥३०८॥ अनोदवत्-नारायणवत् दो-दानं यस्य सोऽप्यनोददस्तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः नारायणदानवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३१५ ॥ अनोदो-नारायणस्तस्य तस्मिन् वा दः-पूजनं यस्य सोऽप्यनोददः, तत्सं० हे १५ अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः नारायणपूजनवाचिना अनोददपदेन के. कार्याः सर्वे० ॥ ३२२ ॥ __ अनोदवत्-नारायणवत् दो-दानशौण्डो यः सोऽप्यनोददः, तत्सं० इत्यादि ७ अर्थाः नारायणदानशौण्डवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३२९ ॥ अनोद एव-नारायण एव दो-देवो यस्य सोऽप्यनोददः, तत्सं हे अनोदद ! २० इत्यादि ७ अर्थाः नारायणदेववाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३३६ ॥ अनोदवत्-नारायणवत् दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः नारायणदीप्तिवाचिना अनोददपदेन के० कार्याः। सर्वे० ॥ ३४३ ॥ अनोदवत्-नारायण इव ददाति अर्थाद् दानं यच्छतीति अनोददः, एवंविधः २५ कोऽपि दाता, तत्सं० इत्यादि ७ अर्थाः नारायणसमदायकवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३५० ॥ अनोदो-नारायणस्तद्वद् दयते अर्थाद् दयावत्त्वेन परप्राणान् रक्षतीति अनोददः, तत्सं० हे अनोदद! इत्यादि ७ अर्थाः नारायणपालकवाचिना अनोददपदेन के० कायोः । सर्वे० ॥ ३५७ ॥ १ अर्थदानं' इति ख-पाठः। अर्ष.. For Private & Personal Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180