Book Title: Anekarth Ratna Manjushayam Author(s): Hiralal R Kapadia Publisher: Devchand Lalbhai Pustakoddhar FundPage 68
________________ श्रीसमयसुन्दरगणिकृता अनः - शकटं दयते - पालयति इति अनोदः - शकटपालकः, तं प्रति अर्थाक्षेपात् द्रव्यादि ददातीति अनोददः । अत्रापि मर्यादा कृता-यो मम शकटं पालयति - रक्षति तस्याहं धनादिकं दद्मि । ततः केनापि शकटं पालितं, ततस्तेनापि तस्य धनादि दत्तं, तत् सोऽप्यनोदद उच्यते, तत्सं० हे अनोदद ! | हे अ ! हे प्राणिन् ! ते तुभ्यं इत्यादि ७ अर्थाः । सर्वे ० ॥ १६८ ॥ अनः- शकटं पालयतीति अर्थसामर्थ्याद् धातूनामनेकार्थत्वाद् वा बलाद् रक्षतीति अनोदः, तमपि द्यति - खण्डयति यः सोऽप्यनोददः । अत्र हि केनापि कस्यापि मन्दिरायां निजशकटं रक्षणाय मुक्तमासीत्, ततः कियत्कालान्तरेण शकटस्वामिना तत्पार्श्वाच्छकटं याचितं, ततस्तेन जातलोभेन रक्षितं, न तु दत्तम्, ततस्तेन रुष्टेन स मारितः, तस्मात् सोऽप्यनोदद उच्यते, तत्सं० हे अनोदद ! । हे अ ! - प्राणिन् ! इत्यादि ७ अर्थाः शकटर- १० क्षकमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ १७५ ॥ 1 ४७ अनः - शकटं द्यति - खण्डयति इति अनोदः, तमपि दयते - पालयतीति अनोददः । अत्रापि केनापि केलिप्रियेण प्रोक्तम्- भो बलिष्ठ ! यद्येतत् शकटं निजवलेन भङ्गि (भनक्षि ? ) तदाऽहं यावज्जीवं पूर्वोक्तप्रकारेण त्वां पालयामि, ततस्तेन शकटं भग्नं, ततस्तेनापि स पालितः, तस्मात् सोऽप्यनोदद उच्यते तत्सं० इत्यादि ७ अर्थाः शकटखण्डकपालकवा- १५ चिना अनोददपदेन केवलेन कार्याः । सर्वे ० ॥ १८२ ॥ अनः- शकटं द्यति - खण्डयति इति अनोदः - शकटखण्डकः, तमपि द्यति - खण्डय - तीति अनोददः । अत्रापि केनापि शकटप्रियेण निजद्वेषिणं प्रत्युक्तम् - यदि त्वं शकटं भक्ष्यसि तदाऽहं त्वामपि हनिष्यामि । ततस्तेन चटितप्रबलप्रकोपेन तच्छकटं भग्नम् । ततस्तेनापि स मारितः, तत्सं० हे अनोदद! | अ ! - प्राणिन् ! ते - तुभ्यं राजा - नृपतिः २० सौख्यं ददातु इत्यादि ७ अर्थाः शकटभञ्जकमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे ० ॥ १८९ ॥ २५ अनः - शकटं ददातीति अनोदः, तस्मै दो- दानं यस्य सोऽप्यनोददः, तत्सं० है अनोदद ! । हे अ !- प्राणिन् ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादि ७ पूर्ववत् कार्याः । अर्थयोजनादिकमपि स्वयं कार्यम् । सर्वे० ॥ १९६ ॥ अनोदः - शकटदायकः, तस्य तस्मै वा दः -पूजनं यस्य सोऽप्यनोदद इत्युच्यते, तत्सं॰ हे अनोदद ! इत्यादि ७ अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ २०३ ॥ अनोदः - शकटदायकः स चासौ दः- क्षीणश्च अनोददः तत्सं० हे अनोदद ! हे अ ! - प्राणिन् ! इत्यादि अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ २१० ॥ ५ ७ Jain Education International १ 'मन्दिरे' इति ख- पाठः । २ 'मन्दिरं मन्दिरा कुटि:' इति श्रीशब्दरत्नाकरे (का० ४, श्लो० ३४ ) ( ३ 'पश्चात्' इति गध-पाठः । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180