Book Title: Anekarth Ratna Manjushayam Author(s): Hiralal R Kapadia Publisher: Devchand Lalbhai Pustakoddhar FundPage 67
________________ अर्थरत्नावली [ अर्थाः १४१-६२३ ] नोद ! अ ! - प्राणिन् ! इत्यादि विधिना १४ अर्थाः प्रेरणापालकवाचिना नोददपदेन के० नपू० कार्याः । सर्वे० ॥ ११२ ॥ नोदे - प्रेरणे दो- देवो यस्य सोऽपि नोददः । यस्य हि देवोऽपि कार्यावसरे त्वमेवं कुर्विति प्रेरणं करोति एवंविधो यः कोऽपि, अथवा नोदे-प्रेरणे द इव-देव इव यः सः ] ५ यो हि देववत् प्रेरणां विधत्ते तत्सं० हे नोदद ! अ ! - प्राणिन् ! इत्याद्यर्थाः १४ पूर्ववदत्रापि एतदर्थद्वयवाचिना नोददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ १२६ ॥ ( नोदः - प्रेरणं तेन तस्मिन् वा दो- दीप्तिर्यस्य सोऽपि नोददः । यो हि परप्रेरणया दीप्तिमानित्यर्थः । तत्सं० हे नोदद ! अ ! - प्राणिन् ! इत्यादि १४ अर्थाः । पुनरपि प्रेरणदीप्तिवाचिना नोददपदेन के० नञ्पू० कार्याः । सर्वे ० ॥ १४० ॥ ) अथ पुनः प्रकारान्तरेण अर्थानाह राजा अ ! अनोदद ! ते सौख्यम् * ॥ १४१-६२३ ॥ १० ४६ अनः शकटं ददातीति अनोदः - शकटदाता तं अनोदं शकटदातारं प्रति ददातीति अर्धाक्षेपात् मूल्यं यच्छतीति अनोदद इत्युच्यते । अत्र हि केनचित् शकटार्थिना प्रोक्तं यदुत भो लोकाः ! यो मह्यं शकटं ददाति तस्मै अहं मूल्यं यथायोग्यं दद्मि । ततः केनापि १५ तस्मै शकटं दत्तं ततस्तेनापि तस्य मूल्यं दत्तम्, तस्मात् सोऽनोदद इत्युच्यते, तत्सं० हे अनोदद ! अ !- प्राणिन् ! ते तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि ७ अर्थाः शकटदातृदायकवाचिना अनोददपदेन कार्याः । सर्वे० ॥ १४७ ॥ अनः - शकटं ददातीति अनोदः, तमपि दयते - पालयतीति अनोददः । अत्रापि केनचित् पथिश्रान्तेन प्रोक्तम्- यो हि मम श्रान्तस्य निषीदनाय शकटं ददाति तमहं याव२० उज्जीवं पालयामि । यावदहं अयं चाजीवावस्तावदेनं धनधान्यद्रव्याद्यवष्टम्भदानेन निर्वाहयामि । ततः केनापि दत्तमनः तस्य ततस्तेनापि स पालितः, तस्मात् सोऽनोदद उच्यते तत्सं० हे अनोदद ! अ ! - प्राणिन् ! ते तुभ्यं राजा सौख्यं ददातु इत्यादि ७ अर्थाः शकट (दाट) पालकवा चिना अनोददपदेन कार्याः ॥ १५४ ॥ अनः शकटं ददातीति अनोदः - शकटदाता, तमप्यनोदं द्यति-खण्डयतीति अनो२५ ददः । अत्र हि केनापि कारणेन केनापि राज्ञा इति मर्यादा कृता यदुत यः कोऽपि कस्मैचिदपि शकटं दास्यति तमहं हनिष्यामि, ततोऽवगणिततद्वचनेन केनापि शकटं कस्मैचिद् दत्तं, ततो जातप्रबलकोपेन तेन स मारितः, तस्मात् सोऽप्यनोदद इत्युच्यते, तत्सं० हे अनोदद ! हे अ ! - प्राणिन् ! ते तुभ्यं राजा - नृपतिः सौख्यं ददातु इत्यादि अर्थाः ७ शकटदातृमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ १६१ ॥ १ '१४०' इति ख- पाठः । २ धनुश्चिह्नान्तर्गतः पाठः ख प्रतौ नास्ति । ३ 'अत्रापि' इति पाठः । ४ 'पालयते' इत्यधिकः ख- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180