Book Title: Anekarth Ratna Manjushayam Author(s): Hiralal R Kapadia Publisher: Devchand Lalbhai Pustakoddhar FundPage 47
________________ अर्थरत्नावली [अर्थाः ४३४-४४३] हे अनिरुद्ध ! आ इति सम्बोधने, राजा-चन्द्रः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदमपि रतसमये स्वप्रियेण समं रममाणाया उषाया वचनं अनिरुद्धं प्रति ॥२॥ एवं असौख्यं ददते त्वद्विरहे इति शेषः। शेषं पूर्ववत् ॥ २॥ ततः॥४॥ अथवा नो-न असौख्यं ददते, सौख्यं ददते इत्यर्थः। तथा नो-न सौख्यं-सुखं ददते, दुःखं ददते इत्यर्थः। ५ शेषं पूर्ववत् । एवं अनिरुद्धवाचिनाऽपि अशब्देन समं पूर्वरीत्या एकपष्टिरी ज्ञेयाः। तद्दिक् प्रदर्शिता । अर्थयोजनाऽपि स्वयं कार्याऽऽर्यैः । पूर्वोक्त३७२मीलने जाताः सर्वेऽपि ॥ ४३३ ॥ तथाऽत्र वायु-चन्द्रा-ऽहंद्वाचिनाऽपि अशब्देन समं बहवोऽर्था अनया रीत्या उत्पद्यन्ते, परं मया प्रयासबाहुल्यात् परस्परं स्तोकभेदत्वाच्च उपेक्षिताः । जाताः सर्वे॥४३३॥ र-अजा नो ददते सौख्यम् ॥ ४३४-४३७ ॥ अजन्ति-क्षिपन्तीति अचि अजाः, ततो रस्य-कामस्य अजा:-क्षेपकाः राजाःकामहन्तारोऽर्थाद् विशेषणाद् विशेष्यप्रतीतिरिति न्यायाद् वा यतयः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं-सुखं ददते । यतो हि "सुरासुरनराः सर्वे, येनैते स्ववशीकृताः। निर्जितो यैः स कामोऽपि, ते यतीशाः सुखप्रदाः ॥१॥" १५ इत्युक्तत्वात् यतयः सुखप्रदा एव स्युः ॥ एवं असौख्यं ददते । इदं कामिनां वचनम् ॥२॥ पूर्वोत्तमीलने सर्वे० ॥ ४३७ ॥ - राजा! नो ददते सौख्यम् ॥ ४३८-४३९ ॥, __हे राजाः!-हे यतयः! । व्युत्पत्त्यादि पूर्ववत् । नो-बुद्धः अवगततत्त्वोऽर्थात् जिनः सौख्यं-सुखं ददते, अमृतस्राविवचनेन प्रीणयतीत्यर्थः । अस्माकमिति शेषः । इदं भगवद्२० व्याख्यानश्रवणानन्तरं अत्यन्तं तुष्टमनसो भव्यस्य यतीनुद्दिश्य वचनम् ॥१॥ एवं असौख्यं ददते अभव्यस्य, अन्यथा वाऽर्थयोजना कर्तव्या ॥२॥ सर्वे० ॥ ४३९ ।। राज! अनो ददते सौख्यम् ॥ ४४०-४४१ ॥ - हे राज!-हे यते ! अनः-अवुद्धः सौख्यं ददते । इदं मूर्खाणां वचनम् ॥१॥ एवं असौख्यं ददते । इदं पण्डितजनवचनम् ॥ २॥ सर्वे० ॥ ४४१ ॥ २५ राजा! नो ददते सौख्यम् ॥ ४४२-४४३ ॥ हे राजाः!-हे यतयः!। व्युत्पत्त्यादि पूर्ववत् । “नस्तु संविदि" इति अनेका. थैतिलकोकेः नो-ज्ञानं सौख्यं ददते । अस्माकमिति अर्थवशाद् गम्यम् । इदं यतीन् प्रति ज्ञानार्थिनां वचनम् ॥ १॥ एवं असौख्यं ददते मूर्खतां कामयमानानाम् ॥२॥ सर्वे०॥४४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180