Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 51
________________ १५ ३० अर्थरत्नावली इति डे रः तत्सं० हे र!। पुनः हे दत!। व्युत्पत्त्यादि पूर्ववत् ॥१॥ एवं ईसौख्यं अजक्षिप, दूरीकुरु इत्यर्थः । इदं श्रीकृष्णं प्रति प्रतिबोधसमये यतीश्वरवचनम् ॥ २॥ एवं "ईभुवि श्रियाम्" इति तिलकानेकार्थवचनात् ईसौख्यं-पृथ्वीसौख्यं अज-गच्छ । इदं सेवकानामाशिषा वचनम् ॥ ३ ॥ एवं ईसौख्यं-पृथ्वीसौख्यं अज-त्यज । इदमपि ५यतिवचनं प्रतिबोधसमये ॥४॥ एवम् "इः कुत्सार्थेऽपि पापे (कामे)ऽपि, निषेधे नयनभ्रमे ॥ ६ ॥ ई रमा-मदिरा-मोहे, महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुपाद्यन्तो, नान्तोऽस्माल्लोपनं सुपः ॥ ७ ॥ ईयौँ योऽयात्र जसा रूपं, स्यादमारूपमी शसि ।" १० इति विश्वशम्भु(श्लो० ६-८)वचनात् इसौख्यं-कुत्सासौख्यं अज-क्षिप ॥ ५॥ एवं ईसौख्यं-मदिरासौख्यं ६ मोहसौख्यं ७ अज-क्षिप । अर्थयोजना स्वयं कार्या । एवं ईसौख्यं-महानन्दसौख्यं अज-गच्छ ॥८॥ एवं ईसौख्यं-प्रत्यक्ष(१)सौख्यं अज-गच्छ । अर्थयो० ॥९॥ एवं “इः स्मरेऽर्थेऽव्ययं खेदे कोपोक्तौ" इति तिलकानेकार्थवचनात् इसौख्यं-कामसौख्यं अज-गच्छ ॥ १० ॥ पक्षे क्षिप ॥ ११॥ अर्थयो० । (र! अज अनोद! दते! सौख्यम् ) दतेसौख्यं इत्यत्र एवं पदविश्लेपः कार्यः-दते असौख्यम्। तत एवं उक्तिः हे अनोद ! त्वं असौख्यं-दुःखं अज-क्षिप ॥ १२ ॥ एवं असौख्यं-दुःखं अज-गच्छ । इदं कृष्णस्य दुःखमिच्छतस्तथाविधस्य कस्यचिद्वचनम् ॥ १३ ॥ हे दते! दस्य-देवस्य तिः-पूजा यस्य सः। अथवा दवत्-देववत् तिः-पूजा यस्य स दतिस्तत्सं० हे दते !। शेषं पूर्ववत् ॥१३॥ २० एवं सौख्यं अज-गच्छ ॥ १४ ॥ क्षिप वा ॥ १५ ॥ अर्थयो । एवं एते एव पञ्चदशार्थाः ॥ १५ ॥ परोक्षाप्रथमपुरुपैकवचनजातया आज इत्येवंरूपक्रियया समं योज्याः। यथा हे अनोद ! त्वं ईसौख्यं-लक्ष्मीसौख्यं आज-जगाम । शेषं पूर्ववत् । एवमन्येऽपि अनया पूर्वोत्तरीत्या च ॥ १४ ॥ अर्थाः कार्याः । अर्थयोजना स्वयं कार्या । जाताः ॥ ३० ॥ (राज अनोद-द! त! ई-सौख्य !) २५ एवं अनोदं-श्रीकृष्णं दयते-पालयति-रक्षतीति अनोददः-नन्दगोकुली तत्सं० हे अनोदद! हे नन्दगोकुलिन् ! त्वं राज-दीप्तिं प्रामुहि । हे ईसौख्य ! पूर्ववत् । हे त! तस्य-तत्त्वस्य ज्ञानस्य वा इत्यादिप्रयोगदर्शनात् तो-ज्ञानं आधाराधेययोरभेदोपचारात् "कुन्ताः प्रविशन्ति” इत्यादिवत् लक्षणया वा त इति कोऽर्थः ? ज्ञानवानित्यर्थः। अथवा तनोति सुखादिकं इति डे प्रत्यये तः तस्य सं० हे त!। यत्र च ते सौख्यं ३० असौख्यं एवं पदविभागस्तत्र तस्य पूर्वोक्त एव अर्थः । इ इति च सम्बोधने पादपूरणे वा 'हे र ! पूर्ववत्' इत्यधिकः पाठः क-ख-ग-ध-प्रतिषु वरीवर्ति, किन्तु सोऽस्थानीय इति प्रतिभाति । '! भज मनोदर !! ई-सौस्य' इति पाठसम्भवे तस्वीकारः कर्तुं शक्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180