Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 57
________________ ५ ३.६ अर्थरत्नावली राजानः अददत 'ईसौख्यम् ॥ ६६२-६६३ ॥ राजानो-नृपाः ईसौख्यं-लक्ष्मीसौख्यं इसौख्यं - कामसौख्यं च अददत- अदुरित्यर्थः ॥ २ ॥ सर्वे ० ॥ ६६३ ॥ २० राजानः ! दद तेसौख्यम् ॥ ६६४ ॥ हे राजानः ! - हे नृपाः ! यूयमिति क्रियासामर्थ्याद् गम्यम् । 'तेसौख्यं दद' तालक्ष्मीः इः- कामः तयोः सौख्यं तेसौख्यं दद- अदद्ध्वमित्यर्थः । अत्र ददेति परोक्षामध्यमपुरुषबहुवचने रूपम् । एवमग्रेऽपि ज्ञेयम् । सर्वे० ॥ ६६४ ॥ र-अ-अः जा ! नो ददते "सौख्यम् ? ॥ ६६५–६६६ ॥ हे जाः - हे जेतृपुरुषाः ! र अर्थात् अग्निदेवः अः - कृष्णः अः - गरुडः । ततो द्वन्द्वे १० कृते राः - अग्नि-विष्णु-गरुडाख्या देवाः नो-न सौख्यं सुखं ददते ? अपि तु ददते इत्यर्थः । एवं नो-न असौख्यं ददते ॥ २ ॥ सर्वे० ॥ ६६६ ॥ राजानः ! अददत 'इसौख्यम् || ६६७-६७२ ॥ हे राजानः । हे चन्द्रमसः ! भवन्त इति शेषः क्रियासामर्थ्याद् गम्यः इसौख्यं - - कामसौख्यं अददत - अदुरित्यर्थः । संयोगिनीनामिति शेषः ॥ १ ॥ एवं ईसौख्यं - लक्ष्मीं १५ (लक्ष्मीसुखं) अददत | देवत्वेन स्वसेवाजुषां लक्ष्मीसौख्यदानत्वात् तेषाम् । अत्र चन्द्रसां बहुत्वं जैनमतमाश्रित्य - [ अर्थाः ६६२-६७२ ] “दो ससि दो रवि पढमे दुगुणा लवणम्मि धाइय ( यई ?) संडे । वारस ससि वारस रवि तप्पभिइ निद्दिट्ठससिरविणो ॥ १ ॥ तिगुणा पुलिजुया अणंतराणंतरम्मि खित्तम्मि | काठोए वायाला विसत्तरी पुक्खरद्धमि ॥ २ ॥” इत्यादिप्रकारेणासङ्ख्येयत्वं चन्द्रमसाम् ॥ सर्वे० ॥ २ ॥ एवं हे राजानः ! - हे यक्षाः ! भवन्त इति शेषः ईसौख्यं इंसौख्यं वा अददत, अदुरित्यर्थः ॥ २ ॥ अर्थयोजना स्वयं कार्या । एवं हे राजानः ! - हे यमाः ! भवन्तः ईसौख्यं १ इसौख्यं वा २ अददत ? अपि नेत्यर्थः ॥ एवं ||४|| सर्वे० ॥ ६७२ ॥ १ छाया Jain Education International द्वौ शशिनो द्वौ रवी प्रथमे द्विगुणा लवणे धातकीखण्डे । द्वादश शशिनो द्वादश स्वयः तत्प्रभृति निर्दिष्टशशिरवयः ॥ त्रिगुणाः पूर्वीययुता अनन्तरानन्तरे क्षेत्रे । कालोदधौ द्विचत्वारिंशद् द्वासप्ततिः पुष्करार्धे ॥ २ 'कुया' इति ख- पाठः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180