Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 41
________________ अर्थरत्नावली [ अर्थाः २२१-२२८] राजा-नृपः असौख्यं ददते । किं० ? 'अनः' मूर्खः । इदं पण्डितस्य राजसेवकस्य वचनम् । यतो हि मूर्यो राजा दुःखेन आराध्यते । यदुक्तम् (श्रीभर्तृहरिमहर्षिभिः) शक्यो वारयितुं जलेन दहनश्छत्रेण सूर्यातपो . नागेन्द्रो निशिताङ्कन समदं दण्डेन गोगर्दभम् । व्याधिर्भपजसङ्ग्रहेण विविधैर्मन्त्रः प्रयोगैपिं ___ सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौपधम् ॥ १॥" -(नीतिशतके श्लो० १०) इत्यादि ॥४॥राजा-नृपः सौख्यं ददते । ममेति शेषः । किंविशिष्टो राजा? । 'अन' न विद्यन्ते नाः-नराः-अर्थान्निजनिकटवर्तिसेवका यस्य सोऽनः, रतकृते एकाकी इत्यर्थः । १. इदमन्यजनलज्जमाननवोढावचनम् । अत्र नशब्दो नरवाचकः। यदुक्तमेकाक्षयों (श्लो०७६) विश्वशम्भुना-"नो नरे च सनार्थे (2) च नोऽनर्थेऽपि प्रदर्श्यते(र्शने)” इति । इदमग्रेऽपि सर्वत्रानुस्मरणीयम् ॥५॥ राजा-नृपोऽसौख्यं ददते । प्रजानामिति शेषः । किं० राजा? 'अनः' नररहितः, एकाकीत्यर्थः। एकाकी हि राजा विपक्षान् निराकृत्य प्रजासुखदाने न समर्थो भवेदित्यर्थयोजना । इदं विपक्षलक्षपीड्यमानवचनम् ॥६॥ राजा-नृपः सौख्यं ददते। १५ किं० राजा? । 'अनः' न विद्यते नः-अनर्थो यस्मात् यस्य यस्मिन् वाऽसौ अनः । इदं नीतिवाक्यम् ॥ ७ ॥राजा-नृपः असौख्यं ददते । किं० राजा? 'अनः' अनर्थरहितः। इदमनर्थप्रियजनवचनम् ॥ ८॥ एते अष्टावप्याः काकुवचनेनापि समं कायोः। यथा राजा सौख्यं ददते? अपि तु न ददते । किं०? 'अनः' वन्धरहितः । इत्यादिप्रकारेण पूर्ववत् कार्याः । अर्थयोजनाऽपि स्वयं कार्या सर्वत्र । जाताः ॥ १६ ॥ पूर्वोक्त २०४. २० मीलने च जाताः सर्वेऽपि ॥ २२० ॥ राजाऽऽनः ददते सौख्यम् ॥ २२१-२२४ ॥ . राज्ञां राज्ञो वा आनः-मुखश्वासः सौख्यं ददते । इदं सम्भोगसमये रामावचनम् ॥१॥राजानो-राजमुखश्वासोऽसौख्यं ददते । इदं रतसमये रुष्ठरामावचनम् ॥२॥ . राज्ञां राज्ञो वा आनः-प्राणो राजानः सौख्यं १ असौख्यं २ ददते । इत्यादिप्रकारेण अर्थद्वयं २५ कार्यम् । अर्थयोजना स्वयं कार्या । जाताः ॥ ४॥ पूर्वोक्तसर्वमीलने जाताः ॥ २२४ ॥ राज-आ-नः ददते अः सौखी अम् ॥ २२५-२२८ ॥ "अः स्यादर्हति सिद्धे च" इति वचनात् अ-श्रीअर्हन्-जिनः अं-परब्रह्म ददते । जिनभक्तिभाजामित्यर्थः (ति शेषः?)। किं० अः? 'राजाना' राजते इति अचि राजं, एवं(विधं) आ इति अतिशयितं नं-ज्ञानं यस्य स राजानः । पुनः किं ? 'सौखी' सुखाना३. परमानन्दरूपाणां समाहारः सौखं, तदस्यास्तीति सौखी । परमानन्दमय इत्यर्थः॥१॥ एवं , 'भष्टाऽप्याः ' इति ग-घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180