Book Title: Anekarth Ratna Manjushayam Author(s): Hiralal R Kapadia Publisher: Devchand Lalbhai Pustakoddhar FundPage 43
________________ अर्थरत्नावली [अर्थाः २४९-२५०] रा अ-ज! आं नो ददते अ-सौख्य ! ॥ २४१ ॥ 'अ-कृष्णः तस्माजो-जातः अजः-कन्दर्पः तस्य सम्वोधन हे अज! रा-लक्ष्मीः नः-अस्मभ्यं आं-लक्ष्मी सम्पदं ददते । किं० अज? 'असौख्य! आत्-कृष्णात् सौख्यं यस्य सः असौख्यः, अथवा अस्य-कृष्णस्य सुखं यस्मात् सः असौख्यः । पुत्राद्धि ५पितुः सुखं भवत्येवेति तत्सम्बोधनं हे असौख्य! । इदं कन्दर्पदेवं प्रति लक्ष्मीदेषतासेवकानां वचनम् ॥१॥२४१ ॥ रा अज! आ नो ददते सौख्यम् ॥ २४२-२४३ ॥ "एते चतुर्दशापि स्वराः पादपूरणभर्त्सनामन्त्रणनिषेधेषु" इति बृहन्यासवचनात् आ इति आमन्त्रणे पादपूरणे वा । हे अज!-हे कन्दर्प! व्युत्पत्त्यादि पूर्ववत् । रा१. लक्ष्मीदेवता नः-अस्माकं सौख्यं-सुखं ददते । इदमपि कन्दर्प प्रति लक्ष्मीदेवतासेवकानां घचनम् ॥ १॥ एवं असौख्यं ददते । शेषं सर्व उत्त्यादियोजनं पूर्ववत् । इदं रुष्टलक्ष्मीदेवताताडितरत्यादीनां वचनम् । अन्यथा वा यथा चेतसि चमत्कारता भवेत् तथा (योजना) कार्या ॥२॥ सर्वमीलने ॥ २४३ ॥ रा अ-ज! आं नो ददते अ-सौख्य! ॥ २४४ ॥ १५ अ-शिवः ततो जं-जन्म यस्य सः अजः-ईश्वरपुत्रो-विनायकस्तत्सम्बोधनं हे अज! रा-लक्ष्मीदेवता नः-अस्मभ्यं आं-सम्पदं ददते । किं. हे अज? हे 'असौख्य'! आत्-ईश्वरात् सौख्यं यस्य सः, अथवा अस्य-शिवस्य सौख्यं यस्मात् सः असौख्यः तत्सं० हे असौख्य! । इदं विनायकं प्रति लक्ष्मीदेवतादीयमानसम्पदां लक्ष्मीसेवकानां वचनम् ॥ २४४॥ २०. रा अ-ज! आ नो ददते सौख्यम् ॥ २४५-२४८ ॥ आत्-वायोः जो-जातः अजः-हनूमान् तत्सं० हे अज! आ इति सम्बोधने पादपूरणे वा । रा-लक्ष्मीदेवता नः-अस्माकं सौख्यं असौख्यं च ददते । इदं हनुमन्तं प्रति लक्ष्मीदेवतादीयमानसौख्यानांतत्सेवकानाम् (वचनम् )॥१॥ अस्थिरतासारत्वमहामोहोत्पादकादिदोषदर्शनेन समुत्पन्नविरक्तभावानां तत्त्यागिनां ऋषिप्रभृतीनां च वचनम् ॥२॥एवं २५.आत्-चन्द्रात् जो-जातः अजः-बुधः इति व्युत्पत्त्या बुधवाचकेनापि अजशब्देन समं पूर्ववत् अर्थद्वयं कार्यम् । अर्थयोजनाऽपि स्वयं कार्या । जाताः ॥ ४ ॥ सर्वे० ॥ २४८ ॥ राज! अनोत्! अत्! अतेः सौख्यम् ॥ २४९-२५०॥ अनः-शकटं तदाकारस्वात् “उदेष्यति शकटं कृत्तिकोदयात्" इति दर्शनात् अनो -रोहिणी स्वयं अतति-गच्छतीति अनोत्-चन्द्रः तत्सं० हे अनोत्! त्वं सौख्यं अतेः३. गच्छेः । हे 'राज!' राजते-शोभते इति अचि राजः तत्सं० हे राज!। पुनः हे 'अत्।' Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180