Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 31
________________ अर्थरत्नावली [अर्थाः ७९-८४] राजाव नो ददते सौख्यम् ॥ ७९-८० ॥ रे-अग्नौ अजाः-त्रैवार्षिका व्रीहयः तान् अवति-दहतीति राजाव-वहौ त्रिवार्षिकश्रीहिहोता ताचष्टे णिजादिविधौ राजाव् नः-अस्माकं सौख्यं ददते । इदं याज्ञिक जनवचनम् । अथवा नो-न सौख्यं ददते । दुःखं ददातीत्यर्थः । इदं तद्विरुद्धजनवचनम् । ५वलोपादिः पूर्ववत् ॥ ८० ।। अथ प्रकारान्तरेण श्रीजैनमतप्रसिद्धान् अर्हत् १ सिद्ध २ आचार्य ३ उपाध्याय४ साधु ५ रूपान् पश्चपरमेष्ठिनः स्तुवन्नाह राजा अःनो ददते सौख्यम् ॥ ८१॥ "अः स्यादर्हति सिद्धे च विष्णावपि" इति वचनात् अ-अर्हन् नः-अस्मभ्यं सौख्यं १० ददते । किंविशिष्टः अः? 'राजा' स्वामी, त्रिजगत्प्रभुरित्यर्थः । इदं जैनवचः॥ ८१॥ राजा नो ददते सौख्यम् ॥ ८२॥ राजन्ति-सिद्धिशिलायां दीप्यन्ते 'क्वचित्' (सिद्ध० अ०५, पा० १, सू० १७१) डे राः। तथा जायन्ते-पुनरुत्पद्यन्ते ते जाः, न जाः अजाः-जन्ममरणरहिताः। अजाः-सिद्धाः। ततो राश्च ते अजाश्च राजाः न:-अस्माकं सौख्यं ददते । इदं जन्ममरणादिदुःखखिन्ननर• १५वचनम् ॥ ८२॥ राजा आः नो ददते सौखी अम् ॥ ८३ ॥ "आः स्याद् गणधारिणि" इति वचनात् आः-आचार्यः नः-अस्माकं अं-परब्रह्म ददते । किं० आः ? 'राजा' रञ्जयति अमृतस्राविण्या सन्देहसन्दोहकाननकृपाण्या स्याद्वा दवाण्या सभामिति राजा । पुनः किं ? 'सौखी' सुखानां संसारविरक्तिरूपाणां समाहारः २. सौखं तदस्यास्तीति सौखी ॥ ८३ ॥ राज! आन् ! ओ! अदद! ते असौख्यम् ! ॥ ८४॥ रिति पदैकदेशे पदसमुदायात् उः-उपाध्यायः तत्सम्बोधनं हे ओ!-हे उपाध्याय! ते-तव रा-दीप्तिः, भवत्विति शेषः । हे ज! "जस्तु जेतरि” इति (विश्व०)वचनात् हे प्रतिपक्षजेतः! । पुनः हे आन् ! आ-सामस्त्येन नो-ज्ञानं येभ्यस्तानि आनानि-शा२५ स्त्राणि, शास्त्रेभ्य एव ज्ञानोत्पादात् अर्थात् द्वादशाङ्गरूपाणि तानि आचष्टे-अर्थतः पाठ यतीति णिजादिविधौ आन् तत्सम्बोधनं हे आन् ! | पुनः हे अदद!। अतन्ति-गच्छन्तीति अतः-प्राणिनः तेषु तेषां वा न विद्यते दो-बन्धः छेदो वा यस्मादसौ अददः, षड्जीव . समीक्ष्यतां द्वादशं पृष्ठम् । २ अवलोक्यतां पञ्चदशं पृष्ठम् । ३ 'नो ज्ञानबन्धनयोः' इति सुधा० १९ (लो०२०)। ४ 'दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः' इति सुधा० (को० २५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180