________________
२८३
(तृतीयः
सर्वपरिच्छित्तिः । एवं यावदत्राप्ययुगपत्पक्षेऽपि समाश्रीयमाणे पञ्चभिर्विज्ञानैर्व्यवधानेऽपि क्रमर्भावि सत् तेषामेकैकं विज्ञानमविच्छिन्नमिव प्रतिभाति, तथाऽनुभूतेः ॥
( २२ ) यदैतदेवं तदा कथमन्यविज्ञानावृत्तौ वर्णयोर्न सकृच्छुतिरिति । अविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं न भवति ? न च भवति, तथाऽप्रतीतेः । इति यत्र क्रमस्तत्र कालसौक्ष्म्येऽप्युपलभ्यत एव । न च प्रतीतिं विहाय पदार्थतत्त्वव्यवस्था
व्याख्या
-
अनेकान्तजयपताका
अनवरतं सर्वपरिच्छित्तिः, अनवरतसर्वपरिच्छित्तिरेव, युगपदेवेन्द्रियविषयसम्बन्धसिद्धेः । एवं तत्त्वे व्यवस्थिते सति यावदत्रापि - युगपदनुभवेऽपि तात्त्विके अयुगपत्पक्षेऽपि समाश्रीयमाणे किमित्याह-पञ्चभिर्विज्ञानैर्व्यवधानेऽपि सत्यधिकृतन्यायेन क्रमभावि सत्-भवत् तेषांषण्णां विज्ञानानामेकैकं विज्ञानं - शब्दादिगोचरादि अविच्छिन्नमिव-युगपदिव प्रतिभाति । कुत इत्याह-तथाऽनुभूतेः-अविच्छेदेनानुभूतेः ॥
प्रकृतयोजनायाह-यदेत्यादि । यदा एतदेवम् - अनन्तरोदितं तदा कथमन्यविज्ञानावृत्तौ अपान्तराले वर्णयोः-सरादिरूपयोर्न सकृच्छुतिः - न युगपच्छ्रवणमिति । एतदेवाह - अविच्छिन्नम्-एकदैव एकघनीभूतश्चासौ आयतवर्णश्चेति विग्रहः । तदाकारं दर्शनं न भवति ? । स्यादेतद् भवत्येवेत्याशङ्कार्निरासायाह-न च भवति । कुत इत्याह- तथाऽप्रतीतेः । इति-एवं यत्र क्रमस्तत्र कालसौक्ष्म्येऽप्युपलभ्यत एव यथाऽधिकृतवर्णयोः । न च प्रतीतिं विहाय -
...अनेडांतरश्मि
પક્ષનો જ આશ્રય કરશો, તો તમારા મતે એ ફલિત થશે કે, છએ જ્ઞાનો ક્રમિક જ થાય છે... એકથી છટ્ટા વિજ્ઞાન સુધીમાં, પાંચ વિજ્ઞાનનું વચ્ચે વ્યવધાન (આંતરૂ) હોવા છતાં પણ, તે છએ વિજ્ઞાનનો, જાણે અવિચ્છિન્નરૂપે પ્રતિભાસ થાય છે, કારણ કે છએ વિજ્ઞાનનો તેવો (અવિચ્છિન્ન-યુગપરૂપે) જ અનુભવ થાય છે.
(૨૨) ઉપસંહાર ઃ કાળની સૂક્ષ્મતાના કારણે, પાંચ વિજ્ઞાનનું વ્યવધાન હોવા છતાં પણ, જેમ છએ વિજ્ઞાનનો યુગપદ્ અનુભવ થાય છે, તેમ ‘સર’ રૂપ બે વર્ણનું પણ યુગપદ્ શ્રવણ થશે... જો કે અહીં બીજા કોઈ વિજ્ઞાનનું વ્યવધાન પણ નથી, તો પછી બંને વર્ણનું, અવિચ્છિન્ન-યુગપત્ - બંને वर्श भजीने खेड घनीभूत (भा) खायत (सांजा) वर्शनं हर्शन (निर्विल्प) उभ न थाय ?
प्रश्न : थाय छे ने ?
ઉત્તર ઃ ના, બિલકુલ નહીં, કારણ કે ‘સર’ બંને વર્ણની પ્રતીતિ ક્રમિકતયા જ થાય છે, યુગપદ્ નહીં... તેથી સિદ્ધ થાય છે કે, જ્યાં ક્રમ હોય, ત્યાં કાળની સૂક્ષ્મતા હોવા છતાં પણ, તે ક્રમની
१. 'भावी सन्' इति क- पाठः । २. ' अन्यदपि विज्ञाना०' इति क- पाठ: । ३. 'तत्त्वव्यव०' इति घ- पाठः । ४. ‘प्रकृतयोजनामाह' इति घ- पाठः । ५. 'स्यादेतन्न भवत्येवे० ' इति क - पाठः । ६. 'निरासार्थमाह न भवति' इति ड पाठ: ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org