Book Title: Anekantjaipataka Part 02
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट
अनेकान्तजयपताका
परिशिष्ट
अनेकान्तजयपताकाऽन्तर्गतानां प्रमाणवार्तिकश्लोकानां स्वोपज्ञव्याख्यायाः
___ मनोरथनन्दिकृतवृत्त्याश्च समुपन्यासः पृ. २६४, पं. ८
तथा चनित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः ॥३/३५॥
(स्वो०) स हि धूमोऽहेतुर्भवन्निरपेक्षत्वान्न कदाचिन भवेत् । तद्भावे वैकल्याभावादिष्टकालवत् । तदाऽपि वां न भवेत्, अभावकालाविशेषात् ।
अपेक्षया हि भावाः कादाचित्का भवन्ति । भावाभावकालयोस्तद्भावयोग्यतायोग्यतायोगात् । तुल्ययोग्यताऽयोग्यतयोहि देशकालयोस्तद्वत्तेतरयोनियमायोगात् ।
सा च योग्यता हेतुभावात् किमन्यत् ? तस्मादेकदेशकालपरिहारेणान्यदेशकालयोर्वर्त्तमानो भावस्तत्सापेक्षो नाम भवति । तथाहि-तथावृत्तिरेवापेक्षा । तत्कृतोपकारानपेक्षस्य तन्नियमायोगात् । तन्नियतदेशकालत्वाद् धूमो यत्र दृष्टः सकृत्, वैकल्ये च पुनर्न दृष्टस्तज्जन्योऽस्य स्वभावः, अन्यथा सकृदप्यभावात् । स तत्प्रतिनियतोऽन्यत्र कथं भवेत् ? भवन् वा न धूमः स्यात् । तज्जनितो हि स्वभावविशेषो धूम इति ।
तथा हेतुरपि तथाभूतकार्यजननस्वभावः । तस्यान्यतोऽपि भावे न स तस्य इति सकृदपि तन्न जनयेत् । न वा स धूमः, अधूमजननस्वभावाद् भावात् । तत्स्वभावत्वे च स एवाग्निरित्यव्यभिचारः ॥३/३५॥ ... (म०) अहेतुत्वे च धूमस्य नित्यं सत्त्वमाकाशस्येव स्यात्, असत्त्वं शशविषाणादेरिव, अहेतोरन्यापेक्षणाभावात् । अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः । ततो यद्यहेतुर्भावः, तदा नित्यं स्यात् । असदेव वा स्याद्, हेत्वभावात् । तस्माद् धूमस्य कादाचित्कत्वदर्शनात् हेतुमत्त्वम् । अग्न्यन्वयव्यतिरेकानुविधानदर्शनात् तत्कार्यत्वञ्च । यश्च यस्य कार्यं स तं न व्यभिचरति, तदधीनस्वरूपत्वात् ॥३/३५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438