Book Title: Anekantjaipataka Part 02
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 432
________________ अनेकान्तजयपताका परिशिष्ट पृ. ३५१, पं. ७ मयूरचन्द्रकाकारं नीललोहितभास्वरम् । सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥२/४०३॥ द्वैरूप्यसिद्धावुपपत्त्यन्तरमाह-मयूरचन्द्रकाकारमन्तरा नीललोहितभास्वरं दीप्तं प्रदीपादेर्मण्डलमविद्यमानमेव मन्दचक्षुषः सम्पश्यन्ति । दीपस्य तादृशस्वरूपाभावात् । ज्ञानस्यानुभवात्मनः स आकार इति द्वैरूप्यसिद्धिः ॥२/४०३।। पृ. ४५५, पं. २ प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवेधः सर्वेषां विकल्पो नामसंश्रयः ॥२/१२३॥ (म०) इदानीमवसरप्राप्तां प्रत्यक्षस्य लक्षणविप्रतिपत्तिं निराकर्तुमाह-यत्तत्प्रत्यक्षमिति प्रसिद्धं तत् कल्पनाया अपोढं द्रष्टव्यं, कल्पनार्थरहितमित्यर्थः । तच्चैतदीदृशं प्रत्यक्षेणैव स्वसंवेदनेनैव सिध्यति, कल्पनारहितस्यार्थस्य रूपस्य संवेदनस्यापरोक्षत्वात् । यदि तु कल्पनास्वभावत्वमस्य स्यात् तथैव प्रकाशेत, विकल्पस्यापरोक्षत्वात् । तथा हि - प्रत्यात्मवेद्यः सर्वेषां प्राणिनां विकल्पो नामसंश्रयः शब्दसंसर्गवान् स यदि स्याद्, उपलभ्य एव भवेत् ॥२/१२३।। पृ. ४५५, पं. ४ संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥२/१२४॥ (म०) तस्मात् संहृत्याकृष्य सर्वतो विकल्पनीयाच्चिन्तां स्तिमितेन सर्वविकल्पविगमात् अविक्षिप्तेनान्तरात्मना चेतसा स्थितोऽपि पुरुषश्चक्षुर्विज्ञानेन रूपमीक्षते, साक्षजा निर्विकल्पा मतिः सर्वसंविदितैव ॥२/१२४।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438