Book Title: Anekantjaipataka Part 02
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट
अनेकान्तजयपताका
पृ. ४५६, पं. २
पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी । वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥२/१२५॥
(म०) सन्त्येवेन्द्रियधियः कल्पनाः । तास्तु नोपलभ्यन्त इत्यप्यसत् । तथा हि-विकल्पावस्थाया ऊर्ध्वं पुनर्विकल्पयन् पुमान् आसीन्मे कल्पनेदृशी इति वेत्ति, नेन्द्रियादुत्पन्नायां गतौ बुद्धौ, संहृत्य इत्यादिना पूर्वमुक्तावस्था यस्यास्तस्यां, कल्पनां वेत्ति । यदि सा तत्र स्यात्, तत्संस्कारस्य स्मृतिर्जायेत । तस्मान्नास्तीति निश्चीयते ॥२/१२५।।
पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः। एतस्मात् पतितैः प्रवादकुसुमैः षड्दर्शनारामभूभूयः सौरभमुद्वमत्यभिमतैरध्यात्मवार्तालवैः ॥२॥
- अध्यात्मसारः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438