Book Title: Anekantjaipataka Part 02
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
॥ सूरिपुरन्दर श्रीहरिभद्रसूरिस्तुतयः ॥
मतिबद्धाः ! शुद्धा प्रभवति कथं साऽद्यभवतां, विचारश्चार्वाकाः ! प्रचरति कथं चारुचतुरः । कुतर्कस्तर्कज्ञाः ! किमपि स कथं तर्कयति वः, सति स्याद्वादे श्रीप्रकटहरिभद्रोक्तवचने ॥ १॥ ग्रावग्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेड्खद्दर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालबालाः ।
यद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं, तद् गम्भीरं प्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः ॥ २ ॥ यथास्थितार्हन्मतवस्तुवादिने निराकृताशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये ॥ ३ ॥ - श्रीयशोदेवमुनिकृता प्रशंसा
श्रीहरिभद्रसूरीन्द्रः वारीन्द्र इव विश्रुतः । परतीर्थ्यांस्त्रासयित्वा मृगानिव गुरुर्जयी ॥ - कश्चित् पूर्वमहर्षिः
हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । 'क्व चाहं शास्त्रलेशज्ञस्तादृक्तन्त्राऽविशारदः ॥ १ ॥
येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः । ते सूरयो मयि भवन्तु कृतप्रसादाः श्रीसिद्धसेनहरिभद्रमुखाः सुखाय ॥ २॥ - श्रीयशोविजयोपध्यायकृता स्याद्वादकल्पलता
सिरिपायलित्तकइ-बप्पभट्टि - हरिभद्दसूरिपमुहाणं । किं भणिमो उणज्जवि न गुणेहिं समो जगे सुकई ॥
Jain Education International
-श्रीविजयसिंहसूरिकृता भुवनसुन्दरीकथा
भद्दं सिरिहरिभद्दस्स सूरिणो जस्स भुवणरंगम्मि । वाणीविसट्टरसभावमंथरा नच्चए सुइरं ॥
- श्रीलक्ष्मिगणिकृतं सुपार्श्वनाथचरित्रम्
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 435 436 437 438