Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनासूत्रे रत्नप्रभापृथिवीनैरियिका वर्तन्ते, 'तत्थ णं बहवे स्यणप्पभापुढवीनेरइया परिवसंति' तत्र खलु-उपर्युक्तस्थानेषु बहवो रत्नप्रभापृथिवी नैरयिकाः परिवसन्ति, ते च नैरयिकाः 'काला कालोभासा' कृष्णावभासाः-अत्यन्त-कृष्णवर्णाः 'गंभीरलोमहरिसा'-गम्भीरलोमहर्षा:-गम्भीराः-अत्यन्तोत्कटाः, लोमहर्षाः-रोमाञ्चोगमाः, भयवशाद् येभ्यस्ते तथाविधा इत्यर्थः, अत एव 'भीमा':-भीमाः-भयानकाः 'उत्तासणगा'-उत्त्रासनका:-उत्त्रासजनकाः, अत्यन्तातकोत्पादका इत्यर्थः, 'परम किण्हा'-परमकृष्णाः-अत्यन्तकृष्णवर्णाः 'वण्णेणं पण्णत्ता' वर्णेन-वर्णापेक्षया अतीव कृष्णाः प्रज्ञप्ताः सन्ति मया महावीरेण, अन्यैश्च तीर्थकृद्भिः, 'समणाउसो !' भो श्रमणायुष्मन् ! 'ते णं निच्चं भीया' ते खलु रत्नप्रभापृथिवीनैरयिकाः, नित्यं-सर्वकालं भीताः-भयभीता भवन्ति, 'निच्चं तत्था'-नित्यंसर्वकालं त्रस्ताः-त्रासयुक्तास्तिष्ठन्ति 'निच्चं तसिया' नित्यं-सदा त्रसिता:-परस्परं परमाधार्मिकै त्रासं प्रापिता भवन्ति 'निच्चं उबिग्णा' नित्यम्-सर्वकालम् उद्विग्नाः-उद्वेगवन्तस्तिष्ठन्ति, 'निच्चं परमसुहसंबद्धं णरगभयं'-नित्यम्सततं परममशुभम् अत्यन्ताकमनीयम् सम्बद्धम्-अनुबद्धम्-मध्ये विच्छेदवर्जितम् नरकभयम् 'पच्चणुभवमाणा'-प्रत्यनुभवन्तः, प्रत्येकं वेदयमानाः 'विहरंति' विहरन्ति तिष्ठन्ति ॥ सू० ८ ।। प्रभा पृथियो के नारक रहते हैं । वे काले और अत्यन्त काली आभा वाले होते हैं । उनको देखने से ही भय के कारण रोमांच हो आता है। इस कारण वे भयंकर हैं और अत्यन्त आतंकजनक हैं। वे वर्ण से अत्यन्त ही काले कहे गए हैं हे आयुष्मन् श्रमण ! वे नारक जीय सदैव भयभीत बने रहते हैं, हमेशा त्रास युक्त रहते हैं। और परम्पर तथा परमाधार्मिकों द्वारा त्रास को प्राप्त ही रहते हैं । सदैव उद्विग्न रहते हैं और सदा अत्यन्त अनिष्ट एवं लगातार बने रहने वाले नरकभय का अनुभव करते हैं । ॥८॥
થાય છે. આ સ્થાનમાં ઘણું રત્નપ્રભા પૃથ્વીના નારક રહે છે. તેઓ કાળા અને અત્યન્તકાળી આભાવાળા હોય છે. તેઓને જેવાથી જ ભયને લીધે રોમાંચ થઈ આવે છે. એ કારણે તે ભયંકર છે અને અત્યન્ત આતંકજનક છે. તેઓ રંગે અત્યંત જ કાળા કહેલા છે. હે આયુષ્યમાન્ શ્રમણ તે નારક છે સદૈવ ભયભીત રહ્યા કરે છે હંમેશા ત્રાસ યુક્ત રહે છે અને પરસ્પર તથા પરમા ધાર્મિક દ્વારા કરાયેલા ત્રાસથી ત્રસ્ત જ રહે છે, સદૈવ ઉદ્વિગ્ન રહે છે અને સદા અત્યન્ત અનિષ્ટ તેમજ સતત થનારા નરક ભયને અનુભવ કરતા રહે છે. ૮
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧